Enter your Email Address to subscribe to our newsletters

नवदेहली, २७ मे-मासः (हि.स.)। पूर्वभारतीय-लक्ष्यभेदक: ओलम्पियन-ख्यातः रणधीरसिंहः बुधवासरस्य प्रातःकाले नवदेहल्यां ७९-वर्षीयावस्थायां दिवंगतः। तस्य निधनात् भारतीय-क्रीडा-जगति विशेषतः निशानेबाजी-समुदाये शोकस्य तरंग: प्रसृत:।
अर्जुन-पुरस्कारेण सम्मानितः रणधीरसिंहः भारतीय-एशियाई-क्रीडा-प्रशासने दीर्घकालं यावत् महत्त्वपूर्णां भूमिकां निर्वहितवान्। सः १९८७ तः २०१२ पर्यन्तं भारतीय-ओलम्पिक-संघस्य महासचिवः आसीत्। एतदतिरिक्तं २००१ तः २०१४ पर्यन्तं अन्तरराष्ट्रीय-ओलम्पिक-समितेः सदस्यः अपि आसीत्, पश्चात् तस्मै मानद-सदस्यत्वम् अपि प्रदत्तम्।
सितम्बर-मासे २०२४ तमे वर्षे रणधीरसिंहः इतिहासं रचितवान्, यदा सः एशियाई-ओलम्पिक-परिषदः प्रथमः भारतीय-अध्यक्षः अभवत्। नवदेहल्यां आयोजितायां ४४-तमायां महासभायां सः २०२८ पर्यन्तं चतुर्वर्षीय-कार्यकालाय अध्यक्षपदे निर्वाचितः आसीत्। किन्तु दुर्बल-स्वास्थ्य-स्थितेः कारणात् तस्य कार्यकालः अस्मिन् वर्षे समयात् पूर्वमेव समाप्तः।
पञ्चवारम् ओलम्पिक-क्रीडासु भारतस्य प्रतिनिधित्वम्
पञ्जाब-राज्यस्य पटियालानगरस्य निवासी रणधीरसिंहः क्रीडा-परिवारात् सम्बद्धः आसीत्। सः पञ्चवारम् ओलम्पिक-क्रीडासु भारतस्य प्रतिनिधित्वं कृतवान्। तेन १९७८ तमे वर्षे बैंकॉक-एशियाई-क्रीडासु स्वर्णपदकं विजित्य भारताय लक्ष्यभेदक-क्षेत्रे प्रथमं एशियाई-क्रीडा-स्वर्णपदकं प्राप्तम्।
एनआरएआई-संस्थया प्रगाढः शोकः व्यक्तःनेशनल-राइफल-एसोसिएशन-ऑफ-इण्डिया (एनआरएआई) इत्यस्य सचिवः राजीवभाटिया विज्ञप्तिं प्रकाश्य उक्तवान्— “प्रगाढ-दुःखेन वयं एतां सूचनां सहभागं कुर्मः यत् राजा रणधीरसिंहस्य २७ मे २०२६ तमे दिने निधनम् अभवत्। सः महान् ओलम्पियनः, अर्जुन-पुरस्कार-विजेता, भारतस्य एशियायाः अन्ताराष्ट्रिय-ओलम्पिक-आन्दोलनस्य च अत्यन्तं सम्मानितेषु क्रीडा-प्रशासकेषु अन्यतमः आसीत्।”
तेन अग्रे उक्तम्— “लक्ष्यभेद-क्रीडायाः ओलम्पिक-आन्दोलनस्य च विकासे तस्य योगदानम् अमूल्यम् आसीत्। एनआरएआई तथा सम्पूर्णः लक्ष्यभेदक-परिवारः अस्याः अपूरणीय-क्षतेः विषये शोकं व्यक्तयति, तस्य परिवारं प्रति प्रगाढ-संवेदनाः च ।
Hindusthan Samachar / Divya Ranjan