Enter your Email Address to subscribe to our newsletters


प्रयागराजः, 26 मईमासः (हि.स.)। डिजिटलमाध्यमानां विस्तारात् श्रद्धालुभ्यः पर्यटकेभ्यश्च उत्तमाः सुविधाः प्रदास्यन्ते तथा प्रयागराजस्य वैश्विकीया परिचितिरपि अधिकं सुदृढा भविष्यति।
एतत् मङ्गलवासरे मुख्यमन्त्री योगी आदित्यनाथः प्रयागराज-नगर-निगम-कार्यकारिण्याः त्रिवर्षपूर्त्यवसरे आयोजिते कार्यक्रमे विकासकार्याधारितायाः ‘त्रीणि वर्षाणि बेमिसाल’ इति पुस्तिकायाः विमोचनं तथा नगरनिगमस्य प्रायः ४०० कोटिरूप्यकव्ययेन विविधविकासपरियोजनानां लोकार्पण-शिलान्यासयोः प्रसङ्गे उपस्थितान् जनान् सम्बोधयन् उक्तवान्। मुख्यमन्त्री उक्तवान् यत् प्रयागराजः अद्य विकासस्य, सुशासनस्य, सुरक्षायाश्च नूतनः आदर्शः भूत्वा उदितः अस्ति। सः अवदत् यत् शासनं गङ्गायाः अविरलधारावत् विकासयात्रां निरन्तरं अग्रे नयति, अस्यैव परिणामः अस्ति यत् प्रयागराजः अद्य अपराध-अराजकताभ्यां मुक्तः भूत्वा विकासस्य नूतनां परिचितिं निर्माति।
नगरनिगम-परिसरे आयोजितां जनसभां सम्बोधयन् मुख्यमन्त्री योगी आदित्यनाथः महापौरं गणेश-केसरवानीं नगरनिगमस्य दलं च प्रशशंस। सः अवदत् यत् नगरनिगमाय शताब्द्याः अत्यन्तं भव्य-दिव्य-महाकुम्भस्य आयोजनस्य महत्त्वपूर्णा भूमिका प्राप्ता। प्रयागराजेन या उत्कृष्टा व्यवस्था आतिथ्यं च प्रदर्शितं, तेन सम्पूर्णे विश्वे नगरस्य प्रतिष्ठा वर्धिता।
मुख्यमन्त्री उक्तवान् यत् प्रयागराजे “वेस्ट-टू-वेल्थ” इति अवधारणा सफलतया कार्यान्विता, यस्य उत्कृष्टमुदाहरणं शिवालिक-पार्कः अस्ति। सः अवदत् यत् पर्यावरणसंरक्षणस्य संसाधनानां उत्तमोपयोगस्य च दिशि एषः आदर्शः अन्यनगराणामपि प्रेरणास्रोतः भवितुमर्हति। सः धार्मिक-सांस्कृतिक-धरोहरस्य संरक्षणस्य उल्लेखं कुर्वन् अवदत् यत् वर्षे २०१९ तमे नरेन्द्र मोदी इत्यस्य प्रेरणया अक्षयवटः सामान्य-श्रद्धालुभ्यः उद्घाटितः, येन लक्षशः जनाः दर्शनस्य अवसरं प्राप्तवन्तः। सरस्वती-कूपस्य दर्शनव्यवस्थापि श्रद्धालूनां कृते महत्त्वपूर्णा उपलब्धिः अस्ति।
प्रदेशस्य विधिव्यवस्थाविषये वदन् मुख्यमन्त्री अवदत् यत् नववर्षपूर्वं प्रयागराजे भय-अराजकतायाः वातावरणम् आसीत्, येन विकासकार्याणि प्रभावितानि भवन्ति स्म, किन्तु अद्य स्थिति: पूर्णतया परिवर्तिता अस्ति। प्रयागराजः अपराध-माफियागिरि-गुण्डागर्दिभ्यः मुक्तः भूत्वा सुरक्षितनगररूपेण प्रतिष्ठितः। सः अवदत् यत् कन्यकाः, व्यापारीणः, सामान्यनागरिकाश्च विना कञ्चिद्भयं स्वकार्याणि कुर्वन्ति तथा नियमभङ्गकर्तृभ्यः विरुद्धं कठोरकार्यवाही सुनिश्चितीक्रियते।
मुख्यमन्त्री अवदत् यत् “डबल-इञ्जिन्-शासनम्” सुरक्षा-सुशासन-समृद्धीनां त्रयाणामपि लक्ष्याणां सह अग्रे गच्छति। शासनस्य उद्देश्यं प्रत्येकपरिवारं प्रति विकासं सुखसमृद्धिं च प्रापयितुम् अस्ति। सः प्रयागराजस्य शीघ्रं विकसितमानस्य आधारभूत-संरचनायाः अपि उल्लेखं कृतवान्। मुख्यमन्त्री अवदत् यत् गङ्गा-एक्सप्रेसवे-निर्माणेन दिल्ली-प्रयागराजयोः मध्ये दूरी अत्यल्पा भविष्यति। अपरञ्च नगरस्य उत्तरदिशि प्रायः १००० कोटिरूप्यकव्ययेन गङ्गानद्याः उपरि नूतनसेतोः अनुमोदनं दत्तम् अस्ति। सः अवदत् यत् शीघ्रमेव नरेन्द्र मोदी द्वारा षट्पथीय-महत्त्वपूर्ण-सेतोः लोकार्पणमपि भविष्यति।
कार्यक्रमस्य समये मुख्यमन्त्री नगरनिगमस्य स्वच्छताकर्मिभ्यः किट्-वितरणं कृतवान् तथा नगरनिगमेन निर्मितायाः विकासकार्याधारितायाः लघुचित्रपटिकायाः अवलोकनमपि कृतवान्।
सः १०० डोर-टू-डोर-कूडा-संग्रहण-ई-वाहनानि तथा डिजास्टर-रिस्पॉन्स-वाहनानि हरितध्वजं दर्शयित्वा प्रेषितवान्। मुख्यमन्त्री नगरनिगमस्य उपलब्ध्याधारितायाः “त्रीणि वर्षाणि बेमिसाल” इति पुस्तिकायाः विमोचनं कृतवान्। सहैव प्रायः ४०० कोटिरूप्यकव्ययेन विविधविकासपरियोजनानां लोकार्पणं शिलान्यासं च कृतवान्। अस्मिन् अवसरे प्रयागराज-मेला-प्राधिकरणस्य नूतन-जालपुटस्य उद्घाटनमपि अभवत्। कार्यक्रमानन्तरं मुख्यमन्त्री संगम-तटम् अगच्छत्, यत्र सः गङ्गामातरः आरत्यां सहभागित्वं कृतवान् तथा बडे-हनुमान-मन्दिरे दर्शन-पूजनं कृत्वा प्रदेशस्य देशस्य च सुख-समृद्धेः कामनाम् अकरोत्। ततः पश्चात् सः लखनऊ नगरं प्रति प्रस्थितवान्। मुख्यमन्त्रिणः भ्रमणकाले प्रयागराजे विकासः, स्वच्छता, आधुनिक-आधारभूत-संरचना, सांस्कृतिक-धरोहर-संरक्षणं च प्रति शासनस्य प्रतिबद्धता स्पष्टतया दृश्यते स्म। मुख्यमन्त्री प्रयागराज-मेला-प्राधिकरणस्य नूतन-जालपुटस्य शुभारम्भं कुर्वन् अवदत् यत् प्रयागराजः विकासस्य सुशासनस्य च आदर्शः भवति।
विकासस्य सुशासनस्य च आदर्शः भवति प्रयागराजः
मुख्यमन्त्री योगी आदित्यनाथः स्वसम्बोधने अवदत् यत् प्रयागराजः केवलम् आस्था-संस्कृत्योः केन्द्रं न, अपितु विकासस्य सुशासनस्य च नूतनः आदर्शः भूत्वा उदेति। सः अवदत् यत् नगरनिगमेन गतत्रिवर्षेषु जनसुविधासु, स्वच्छतायाम्, आधारभूत-संरचनायाम्, नागरिकसेवासु च उल्लेखनीयानि कार्याणि कृतानि। मुख्यमन्त्री अवदत् यत् “डबल-इञ्जिन्-शासनस्य” उद्देश्यं नगराणि आधुनिकसुविधाभिः सुसज्जितानि कर्तुं नागरिकानां जीवनस्तरं च उन्नेतुम् अस्ति। एतस्यैव चिन्तनस्य सह मार्ग-नाली-पेयजल-सीवरेज-प्रकाशव्यवस्था-उद्यानविकास-डिजिटलसेवानां विस्तारः निरन्तरं क्रियते।
महाकुम्भस्य सफलतया प्रयागराजस्य गौरवं वर्धितम्
योगी आदित्यनाथः अवदत् यत् महाकुम्भस्य सफल-आयोजनेन प्रयागराजस्य प्रतिष्ठा विश्वस्तरे नूतनां ऊर्ध्वतां प्राप्तवती। शासनद्वारा विकसिताः स्थायिन्यः आधुनिकाश्च आधारभूत-संरचनाः आगामिवर्षेष्वपि नगरवासिनां श्रद्धालूनां च कृते उपयोगिन्यः भविष्यन्ति। सः अवदत् यत् प्रयागराजस्य समग्रविकासाय केन्द्र-राज्य-शासनयोः निरन्तरं निवेशः क्रियते तथा भविष्येऽपि जनहितसम्बद्धाः परियोजनाः प्राथमिकतया स्वीक्रियिष्यन्ते।
नगरनिगमस्य उपलब्धीनां प्रशंसा
मुख्यमन्त्री योगी आदित्यनाथः नगरनिगम-कार्यकारिण्याः त्रिवर्षपूर्त्यवसरे जनप्रतिनिधीन्, अधिकारिणः, कर्मचारिणश्च अभिनन्दन् अवदत् यत् विकासकार्याणां लाभः अन्तिमजनं यावत् प्राप्नुयात्। सः नागरिकसहभागितामपि विकासस्य सफलतायाः महत्त्वपूर्णम् आधारं प्रोक्तवान्। कार्यक्रमे कैबिनेटमन्त्री नन्दगोपालनन्दी जलशक्तिमन्त्री स्वतन्त्रदेवसिहः, महापौरः गणेश-केसरवानी, एम.एल.सी.-विधायकः सुरेन्द्र-चौधरी, भाजपानेता पूर्व-उपमहापौरा अनामिका-चौधरी च सहिताः बहुसंख्यकाः जनप्रतिनिधयः, अधिकारिणः, नागरिकाश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Divya Ranjan