प्रो.हर्षकुमारसिन्हा ‘कन्हैयासिंह-शोध-सम्मान-२०२६’ इति सम्मानं प्राप्तवान्
देवरियानगरम्, २७ मे-मासः (हि.स.)। दीनदयाल-उपाध्याय-गोरखपुर-विश्वविद्यालयस्य रक्षा-रणनैतिक-अध्ययन-विभागस्य पूर्वाध्यक्षः प्रो.हर्षकुमारसिन्हा वर्ष-२०२६ इत्यस्य प्रतिष्ठितेन “कन्हैयासिंह-शोध-सम्मानेन” सम्मानितः। शिक्षा-शोध-सामाजिक-चिन्तन-क्षेत्रेषु त
फोटो


देवरियानगरम्, २७ मे-मासः (हि.स.)। दीनदयाल-उपाध्याय-गोरखपुर-विश्वविद्यालयस्य रक्षा-रणनैतिक-अध्ययन-विभागस्य पूर्वाध्यक्षः प्रो.हर्षकुमारसिन्हा वर्ष-२०२६ इत्यस्य प्रतिष्ठितेन “कन्हैयासिंह-शोध-सम्मानेन” सम्मानितः। शिक्षा-शोध-सामाजिक-चिन्तन-क्षेत्रेषु तस्य उत्कृष्ट-योगदानस्य कृते एतत् सम्मानं तस्मै प्रदत्तम्।

देवरिया-स्थिते प्रेस्टिज-संस्थान-परिसरे बुधवासरे आयोजिते समारोहः प्रो.सिन्हा वाग्देव्याः प्रतिमया, श्रीफलेन, प्रशस्ति-पत्रेण तथा २६-सहस्र-रूप्यकाणां सम्मान-राश्या च सम्मानितः। एतत् सम्मानं गत-षड्वर्षेभ्यः अकादमिक-सामाजिक-अनुसन्धान-क्षेत्रयोः विद्वद्भ्यः प्रदीयते।

प्रेस्टिज-संस्थानस्य निदेशकः शिवनारायणसिंहः उक्तवान् यत् अस्मिन् वर्षे सम्मानस्य चयन-प्रक्रियायां भारतीय-प्रशासनिक-सेवायाः त्रयः वरिष्ठ-अधिकारिण: विजयप्रकाश-श्रीवास्तवः, अजयसैनी तथा अमरकुशवाहा निर्णायक-मण्डले सम्मिलिताः आसन्।

प्रोफेसरः हर्षकुमारसिन्हा उच्च-शिक्षा-क्षेत्रे ३६-वर्षीयम् अनुभवम् अधिगतवान्। सः राष्ट्रीय-सुरक्षा-दक्षिण-एशियाई-विषय-मीडिया-अध्ययन-क्षेत्रेषु विशेषज्ञरूपेण देशे विदेशे च प्रसिद्धः अस्ति।

Hindusthan Samachar / Divya Ranjan