बरेकायाम्“एक पेड़ माँ के नाम” इत्यस्य अभियानस्य शुभारंभो, जीएमद्वारा दत्तः पर्यावरण संरक्षणस्य संदेशः
वाराणसी, 27 मईमासः (हि.स.)। रेलवे-बोर्डस्य निर्देशानुसारं बनारस-रेल-इञ्जिन-कारखाना-परिसरे (बरेका) महाप्रबन्धकः आशुतोष-पन्त-महोदयः बुधवासरात् “एक-पेड़-माँ-के-नाम” इति अभियाने पौधरोपणेन शुभारम्भम् अकरोत्। बरेका-पश्चिमी-स्वास्थ्य-केन्द्र-परिसरे आयोजि
a5e3ee7190bf56966369f3dccee58e76_960770042.jpg


वाराणसी, 27 मईमासः (हि.स.)। रेलवे-बोर्डस्य निर्देशानुसारं बनारस-रेल-इञ्जिन-कारखाना-परिसरे (बरेका) महाप्रबन्धकः आशुतोष-पन्त-महोदयः बुधवासरात् “एक-पेड़-माँ-के-नाम” इति अभियाने पौधरोपणेन शुभारम्भम् अकरोत्। बरेका-पश्चिमी-स्वास्थ्य-केन्द्र-परिसरे आयोजिते कार्यक्रमे पौधरोपणानन्तरं महाप्रबन्धकः पर्यावरण-संरक्षणं वर्तमान-समयस्य महती आवश्यकता इति उक्तवान्।

तेन सर्वेभ्यः अधिकाधिक-वृक्षारोपणं कर्तुं तथा प्रकृतेः संरक्षणार्थं सक्रिय-योगदानं दातुम् आह्वानं कृतम्। महाप्रबन्धकः अवदत् यत् वृक्षाः केवलं पर्यावरण-सन्तुलन-रक्षणे एव सहायका न सन्ति, अपितु आगामि-पीढीनां कृते स्वच्छ-स्वस्थ-जीवनस्य आधाररूपेण अपि भवन्ति। “एक-पेड़-माँ-के-नाम”इत्येतत् अभियानं प्रकृतिः, मातृत्वं तथा संवेदनशीलतां संयोजयन् प्रेरणादायकः प्रयासः अस्ति। एतत् समाजं पर्यावरणस्य प्रति भावनात्मक-रूपेण सम्बद्धं करोति।

बरेका-जनसम्पर्क-कार्यालयेन सूचितं यत् परिसरे १५ मईतः ५ जून २०२६ पर्यन्तं “विश्व-पर्यावरण-दिवस-अभियान-२०२६” उत्साहपूर्वकं आयोज्यते। अस्य अभियानस्य उद्देश्यं पर्यावरण-संरक्षणम्, जलवायु-सन्तुलनम्, हरित-विकासः तथा स्वच्छ-स्वस्थ-भविष्यस्य प्रति जन-जागरूकता उत्पन्नं कर्तुम् अस्ति। विश्व-पर्यावरण-दिवस-अभियान-२०२६ अन्तर्गतं बरेका-परिसरे विविध-जागरूकता-कार्यक्रमाः, स्वच्छता-अभियानम्, वृक्षारोपणम्, विथिका-नाटकम् तथा जनभागीदारी-आधारित-गतिविधीनाम् आयोजनं क्रियते, येन पर्यावरण-संरक्षणस्य प्रति व्यापक-जागरूकता उत्पद्यते।

अद्यतन-पौधारोपण-अभियाने प्रमुख-मुख्य-विद्युत्-अभियन्ता मनीष-कुमार-महोदयः, प्रमुख-मुख्य-यान्त्रिक-अभियन्ता विवेक-शीलः, प्रमुख-मुख्य-अभियन्ता शैलेन्द्र-कुमार-सिंहः, प्रधान-वित्त-सलाहकारः मुक्तेश-मित्तलः, प्रमुख-मुख्य-सामग्री-प्रबन्धकः आलोक-अग्रवालः, प्रमुख-मुख्य-चिकित्सा-अधिकारी डॉ-देवेश-कुमार-महोदयः, महानिरीक्षकः सह प्रधान-मुख्य-सुरक्षा-आयुक्तः देवराज-कुमार-मौर्य-महोदयः इत्यादयः सम्मिलिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani