Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, २७ मे-मासः (हि.स.)। भारतीय-जनता-पक्षस्य (भाजपा) राष्ट्रिय-अध्यक्षः नितिननवीनः उत्तराखण्ड-प्रवासकाले द्वौ नूतनौ कार्यक्रमौ अपि योजितौ। सः संगठनात्मक-सभाः, जनप्रतिनिधिभिः सह संवादः तथा यूनां कार्यक्रमा: इत्यादीभि: सह अधुना सन्त-समाजेन तथा शिक्षाविद्भिः सह अपि साक्षाकारं करिष्यति।
प्रदेश-मीडिया-प्रभारी मनवीरसिंहचौहानः अवदत् यत् राष्ट्रिय-अध्यक्षः परमार्थ-निकेतने गङ्गा-आरार्तियां सहभागी भविष्यति। सः उक्तवान् यत् एषः कार्यक्रमः आध्यात्मिक-सांस्कृतिक-दृष्ट्या अत्यन्तं महत्त्वपूर्णः अस्ति। राष्ट्रिय-अध्यक्षः सन्त-समाजात् आशीर्वादं स्वीकरिष्यति तथा धार्मिक-सामाजिक-विषयेषु संवादं करिष्यति। तेन सह प्रवासकाले विविधाः संघटनात्मक-सभाः, जनप्रतिनिधि-संवादः तथा कार्यकर्तृभिः सह साक्षात्कार-कार्यक्रमाः अपि आयोज्यन्ते।
सः अवदत् यत् २८ मे-मासे राष्ट्रिय-अध्यक्षः जौलीग्रान्ट-विमानपत्तनम् आगमिष्यति। ततः सः प्रदेश-कार्यालयं गमिष्यति, मार्गे च विभिन्न-स्थानेषु कार्यकर्तृभिः स्वागतं भविष्यति। प्रदेश-कार्यालये सः नवीन-प्रदेश-कोर-समित्या तथा मन्त्रिमण्डल-सदस्यैः सह सभां करिष्यति। ततः २९ मे-मासे सः मुख्यमन्त्रिणः पुष्करसिंहधामी इत्यनेन सह मुख्यमंत्री-निवासे साक्षात्कारं करिष्यति। तस्मात् अनन्तरं सः दिवङ्गत-पूर्व-मुख्यमन्त्री बी.सी. खण्डूरी इत्यस्य आवासं गत्वा श्रद्धाञ्जलिं समर्पयिष्यति तथा परिजनै: सह साक्षात्कारं करिष्यति। ततः सांसदैः विधायकैः च सह सभा भविष्यति।
प्रदेश-मीडिया-प्रभारी अवदत् यत् अस्मिन्नेव दिने प्रदेश-पदाधिकारिभिः, मोर्चा-अध्यक्षैः, जनपद-प्रभारिभिः तथा जनपद-अध्यक्षैः सह संगठनात्मक-सभा अपि प्रस्ताविता अस्ति। महापौरैः, नगर-निकाय-प्रतिनिधिभिः, जिला-पञ्चायत-अध्यक्षैः तथा खण्ड-प्रमुखैः सह पृथक् सभा भविष्यति। सायंकाले मीडिया, सोशल-मीडिया, आईटी-विभाग-कार्यकर्तृभिः तथा प्रदेश-प्रवक्तृभिः सह संवाद-कार्यक्रमः आयोजितः अस्ति।
सः पुनः अवदत् यत् ३० मे-मासे राष्ट्रिय-अध्यक्षः टपकेश्वर-मन्दिरं गमिष्यति। ततः बूथ-अध्यक्षस्य गृहे जलपानं कृत्वा बूथ-समिति-सभायां भागं ग्रहीष्यति। कार्यक्रमानुसारं डाकरा-विपण-क्षेत्रे अपि बूथ-समिति-कार्यकर्तृभिः सह सभा भविष्यति। प्रवासस्य अन्तिम-दिने शिवालिक-कॉलेज-ऑफ-इञ्जिनियरिङ्ग-स्थले “विकसित-भारत-२०४७ : उच्च-शिक्षायाः परिवर्तनकारी भूमिका” इति विषये प्रबुद्ध-गोष्ठ्यां राष्ट्रिय-अध्यक्षः सहभागी भविष्यति। ततः सः मुख्यमंत्री-कैम्प-कार्यालये युवा-संवाद-कार्यक्रमे युवानां संवादं करिष्यति तथा सायंकाले जौलीग्रान्ट-विमानपत्तनत: दिल्ली-नगरं प्रति प्रस्थास्यति।
Hindusthan Samachar / Divya Ranjan