राष्ट्रपति द्रौपदी मुर्मुः अद्य नाथुलां गमिष्यति, तदुत्तरं दीक्षांत समारोहे सम्मेलिष्यते
गंगटोकम्, 27 मईमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः सिक्किमराज्यस्य त्रिदिवसीयाधिकारिकप्रवासे अस्ति। अद्य तस्याः प्रवासस्य द्वितीयः दिवसः अस्ति। राष्ट्रपतिः अद्य नाथुलां गमिष्यति तथा सिक्किमकेन्द्रीयविश्वविद्यालयस्य दीक्षान्तसमारोहे सहभागी भविष्
भारतकी राष्ट्रपतिले नामग्याल इन्स्टिट्यूट अफ टिबेटोलोजीको भ्रमण गरिन्


गंगटोकम्, 27 मईमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः सिक्किमराज्यस्य त्रिदिवसीयाधिकारिकप्रवासे अस्ति। अद्य तस्याः प्रवासस्य द्वितीयः दिवसः अस्ति। राष्ट्रपतिः अद्य नाथुलां गमिष्यति तथा सिक्किमकेन्द्रीयविश्वविद्यालयस्य दीक्षान्तसमारोहे सहभागी भविष्यति।

राष्ट्रपतिः द्रौपदीमुर्मुः त्रिदिवसीयप्रवासार्थं मङ्गलवासरे सिक्किमराज्यं प्राप्तवती। प्रवासस्य प्रथमदिने सा ह्यः मध्यान्हे राजधानीस्थितं स्वर्णजयन्तीमैत्रेयमञ्जरीपरिसरस्थम् ऑर्किडेरियम् अवलोकितवती। ततः अनन्तरं सायंकाले सा राजधानीसमीपस्थितं देवरालीप्रदेशे नामग्याल् इन्स्टिट्यूट् ऑफ् तिब्बतोलॉजी संस्थानम् अवलोकितवती।

अद्य राष्ट्रपतिः भारतचीनसीमास्थं नाथूलादर्रं गमिष्यति। उल्लेखनीयम् अस्ति यत् जून २०२६ मासात् कैलाशमानसरोवरतीर्थयात्रा नाथूलादर्रमार्गेण पुनः आरभ्यते। कोरोनाकाले आरोपितप्रतिबन्धानाम् अनन्तरम् एषः प्रथमः अवसरः अस्ति यदा तीर्थयात्रा नाथूलादर्रमार्गेण पुनः प्रारभ्यते।

नाथूलापास् इत्यस्मात् प्रत्यागत्य राष्ट्रपतिः राजधानीनगरे आयोज्यमाने सिक्किमकेन्द्रीयविश्वविद्यालयस्य सप्तमदीक्षान्तसमारोहे सहभागी भविष्यति।

स्वप्रवासस्य अन्तिमदिने २८ मई दिने राष्ट्रपतिः राजधानीस्थिते पाल्जोरस्टेडियम् इत्यत्र आयोज्यमाने समारोहे सहभागी भविष्यति। सा सिक्किमपुलिसबलाय राष्ट्रपतेः ‘पुलिसकॉलर्’ इति सम्मानं प्रदास्यति। सिक्किमराज्यम् एतत् पुरस्कारं प्राप्तुं देशस्य पञ्चदशं राज्यं अस्ति।

Hindusthan Samachar / Dheeraj Maithani