मानकानाम् अनुरूप विकसितम्आयुष्मान आरोग्यमंदिरम्, अधिक व्ययस्य प्रतिपादने भ्रामकम् : स्वास्थ्य मंत्री
नवदिल्ली, 28 मईमासः (हि.स.)। दिल्लीस्य स्वास्थ्य-मन्त्री डॉ. पंकज कुमार सिंहेन प्रतिपादितं यत् दिल्ली-नगरे स्वास्थ्य-अवसंरचना-विस्तारस्य कार्यं पूर्ण-पारदर्शितया तथा भारत-सरकारस्य दिङ्-निर्देशानुसारं क्रियमाणम् अस्ति। प्रत्येकम् आयुष्मान-आरोग्य-
दिल्ली के स्वास्थ्य मंत्री डॉ. पंकज कुमार सिंह  (फाइल फोटो)


नवदिल्ली, 28 मईमासः (हि.स.)।

दिल्लीस्य स्वास्थ्य-मन्त्री डॉ. पंकज कुमार सिंहेन प्रतिपादितं यत् दिल्ली-नगरे स्वास्थ्य-अवसंरचना-विस्तारस्य कार्यं पूर्ण-पारदर्शितया तथा भारत-सरकारस्य दिङ्-निर्देशानुसारं क्रियमाणम् अस्ति। प्रत्येकम् आयुष्मान-आरोग्य-मन्दिरं स्वीकृत-वित्तीय-मानदण्डानुसारं तथा निर्धारित-प्रक्रियानुसारं विकसितं कृतम् अस्ति। तेन उक्तं यत् स्वीकृत-बजटस्य तथा वास्तविक-निधि-विमोचनस्य तथ्यानाम् अवहेलनां कृत्वा वित्तीय-अङ्कानां मिथ्या-व्याख्या स्वास्थ्य-पहल-सन्दर्भे अनावश्यक-भ्रमम् उत्पादयितुं शक्नोति।

स्वास्थ्य-मन्त्रिणा आयुष्मान-आरोग्य-मन्दिराणां कृते कृत-व्ययस्य विषये भ्रामक-दावानां सन्दर्भे एतत् स्पष्टतया उक्तं यत् एतेषां केन्द्राणां विकासः तथा संचालनं शासनद्वारा निर्धारित-वित्तीय-मानदण्डानुसारं, तकनीकी-दिशा-निर्देशानुसारं तथा अनुमोदित-निधि-संरचनानुसारं कृतम् अस्ति। भारत-सरकारेण निर्धारितस्य आयुष्मान-आरोग्य-मन्दिर-आदर्शस्य अन्तर्गतं स्वास्थ्य-अवसंरचना-सुदृढीकरणाय तथा सेवा-उन्नयनाय निश्चितं वित्तीय-संरचनं निर्धारितम् अस्ति। प्रत्येकस्मै केन्द्राय अवसंरचना-उन्नयनार्थं पञ्चविंशति-लक्ष-रूप्यकाणि तथा उपस्कराणां, स्थिर-उपकरणानां तथा आवश्यक-कार्यात्मक-सुविधानां कृते एक-लक्ष-रूप्यकाणि निर्धारितानि सन्ति। सर्वाणि कार्याणि एतेषामेव स्वीकृत-वित्तीय-प्रावधानानाम् अन्तर्गतं कृतानि, येन सेवा-गुणवत्ता, रोगिणां अनुभवः, निदान-क्षमता तथा प्राथमिक-स्वास्थ्य-अवसंरचना सुदृढा भवेत्।

स्वास्थ्य-मन्त्रिणा उक्तं यत् वित्तीय-वर्षे २०२५-२६ मध्ये दिल्ली-नगरे नागरिकेभ्यः सुलभाः तथा निवारक-स्वास्थ्य-सेवाः प्रदातुं केन्द्र-प्रायोजित-योजनानाम् अन्तर्गतं कुलं ३७० आयुष्मान-आरोग्य-मन्दिराणि संचालितानि। एतेषां केन्द्राणां विवरणम् अधोलिखितम् अस्ति।

२४४ केन्द्राणि — पीए-एबीएचआईएम् (प्रधानमन्त्री-आयुष्मान-भारत-हेल्थ-इन्फ्रास्ट्रक्चर-मिशन) अन्तर्गतं।

१२६ केन्द्राणि — एनएचएम् (राष्ट्रिय-स्वास्थ्य-मिशन) अन्तर्गतानि।

तेन एतदपि स्पष्टं कृतं यत् एतासां परियोजनानां कृते विमोचिता धनराशिः स्वीकृत-योजना-प्रावधानानुसारं तथा उपयोग-मानदण्डानुसारं पूर्णतया अनुकूलम् अस्ति। तेन उक्तं यत् पीए-एबीएचआईएम् अन्तर्गतं ५८.३० कोटि-रूप्यकाणि, एनएचएम् अन्तर्गतं ८.५० कोटि-रूप्यकाणि, तथा कुलं ६६.८० कोटि-रूप्यकाणि विमोचितानि सन्ति। वर्तमाने संचालितेषु केन्द्रेषु अस्मात् अधिक-व्ययः कृतः इति सम्बन्धिनःप्रतिपाद्याः भ्रामकाः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani