Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २८ मे-मासः (हि.स.)। पश्चिमबङ्गसर्वकारेण अन्नपूर्णायोजनायाः कृते एकादशपृष्ठात्मकं विस्तृतम् आवेदनपत्रं प्रकाशितम्। अस्याः योजनायाः अन्तर्गतं पात्रमहिलाभ्यः प्रतिमासं त्रिसहस्र-रूप्यकाणां आर्थिकसहायता प्रदास्यते। मुख्यमन्त्री शुभेन्दु-अधिकारी बुधवासरे आयोजितायां पत्रकारवार्तायां आवेदनपत्रं प्रकाश्य उक्तवान् यत् आवेदनप्रक्रिया जून-मासस्य प्रथमदिनात् आरभ्य अग्रिमत्रिमासपर्यन्तं चलिष्यति। किन्तु योजनालाभार्थं काः काः सूचनाः दातव्याः इति स्थितिः रात्रौ विस्तृत-आवेदनपत्रस्य प्रकाशनानन्तरमेव स्पष्टा अभवत्।
सर्वकारेण प्रकाशिते आवेदनपत्रे आवेदकस्य तस्य सम्पूर्णकुटुम्बस्य च विस्तृतं विवरणम् अपेक्षितम् अस्ति। अस्मिन् कुटुम्बप्रमुखस्य नाम, जन्मतिथिः, निवासस्थानम्, आधारसङ्ख्या तथा आधारसंबद्धः दूरवाणीक्रमाङ्कः अनिवार्यरूपेण दातव्यम् अस्ति। एतदतिरिक्तं कुटुम्बस्य सर्वेषां सदस्यानां नामानि, सम्बन्धाः, आधारविवरणानि अन्यव्यक्तिगतसूचनाश्च पूरयितव्याः।
आवेदनपत्रे कुटुम्बस्य प्रत्येकं वयस्कसदस्यस्य धनागारपञ्जीकायाः विवरणम् अपि दातव्यं भविष्यति। सर्वकारेण स्पष्टतया उक्तं यत् धनागारपञ्जीका आधारसङ्ख्यया सह सम्बद्धा भवेदिति आवश्यकी। तेन सह सर्वेषां सदस्यानां मतदाता-परिचयपत्र-सङ्ख्या, विधानसभाक्षेत्रम्, पार्ट-सङ्ख्या इत्यादीनां विवरणम् अपि अपेक्षितम्। यदि कुटुम्बस्य समीपे डिजिटल-राशन-कार्ड अस्ति तर्हि तस्य सम्पूर्णविवरणम् अपि आवेदनपत्रे लेखनीयम्।
अन्नपूर्णायोजनायाः आवेदनपत्रे सम्पत्तिसम्बद्धसूचनाः अपि अनिवार्याः कृताः। आवेदकेन वक्तव्यं भविष्यति यत् कुटुम्बस्य समीपे पक्क्वगृहम् अस्ति न वा, कियती भूमिः अस्ति, भूमेः म्यूटेशन-पञ्जीकरण-संबद्धपत्राणि च समर्पणीयानि। कुटुम्बस्य कस्यचित् सदस्यस्य नाम्नि चतुर्चक्रवाहनस्य अस्तित्वस्य सूचना अपि दातव्या।
एतदतिरिक्तं आवेदनपत्रे एतदपि पृष्टं यत् कुटुम्बः पूर्वमेव कस्यचित् राज्यसर्वकार-योजनायाः लाभं प्राप्नोति न वा। स्वास्थ्यबीमा, पैन-कार्ड, व्यवसायः, आयसंबद्धपत्राणि च समर्पणीयानि। कुटुम्बस्य प्रत्येकं सदस्यस्य शैक्षिकयोग्यतायाः विवरणं तत्सम्बद्ध-प्रमाणपत्राणि च आवेदनपत्रे सह दातव्यानि।
सर्वकारेण कुटुम्बस्य वार्षिकायः, स्टूडेण्ट-क्रेडिट-कार्ड-योजनायाः लाभः, सीएए-अधिनियमस्य अन्तर्गतं नागरिकतायाः आवेदनम्, एसआईआर-सूच्यां नाम-निष्कासनम्, ट्राइब्यूनल-मध्ये आवेदनम् इत्यादीनि विवरणानि अपि आवेदनपत्रे समाविष्टानि। कुटुम्बस्य बालकानां विद्यालयस्य नाम तथा टीकाकरणसंबद्धसूचनाः अपि अपेक्षिताः।
मुख्यमन्त्री शुभेन्दु-अधिकारी उक्तवान् यत् आवेदनपत्रम् ऑनलाइन-ऑफलाइन-माध्यमाभ्यां उभयथा पूरयितुं शक्यते। ये जनाः स्वयमेव आवेदनपत्रं पूरयितुं न शक्नुवन्ति, तेषां सहाय्यार्थं सर्वकारीयकर्मचारिणः गृहं गृहं गत्वा साहाय्यं करिष्यन्ति। विधायकेभ्यः अपि अस्यां प्रक्रियायां सहयोगाय निर्देशः दत्तः।
सर्वकारस्य कथनम् अस्ति यत् अस्य विस्तृत-आवेदनपत्रस्य माध्यमेन कुटुम्बानां सम्पूर्णः सामाजिकः आर्थिकः च दत्तांशः सज्जीकृतः भविष्यति, येन भविष्ये अन्यासु सर्वकारीययोजनासु अपि तस्य उपयोगः कर्तुं शक्यते।
विपक्षस्य अनेकेषां जनानां च मतम् अस्ति यत् एतावतां अधिकतथ्यानां सूचनानां च अपेक्षया सामान्यजनानां कृते आवेदनपत्रपूरणे कठिनता उत्पद्येत।
Hindusthan Samachar / Divya Ranjan