हिमखंडाः अनया एव गत्या द्रवीभवन्ति चेत् विश्वं गंभीर जल संकटं समक्षीकरिष्यति : डॉ. प्रकाश चौहानः
- सदानीरा समागमे 2026 जले, ऊर्जायां भारतीयायां ज्ञान परंपरायां जातं मंथनम् भोपालम्, 28 मईमासः (हि.स.)। इसरोसंस्थायाः वैज्ञानिकः डॉ. प्रकाश चौहानः जलसंरक्षणस्य भारतीयज्ञानपरम्परायाश्च सम्बन्धे उक्तवान् यत् वेदेषु पुराणेषु च नद्यः जीवनस्य आधाररूपे
सदानीरा समागम को संबोधित करते हुए वैज्ञानिक डॉ. प्रकाश चौहान


सदानीरा समागम में वैज्ञानिक डॉ. प्रकाश चौहान ने की शिरकत


सदानीरा समागम में जल, ऊर्जा और भारतीय ज्ञान परंपरा पर हुआ मंथन


सदानीरा समागम में जल, ऊर्जा और भारतीय ज्ञान परंपरा पर हुआ मंथन


- सदानीरा समागमे 2026 जले, ऊर्जायां भारतीयायां ज्ञान परंपरायां जातं मंथनम्

भोपालम्, 28 मईमासः (हि.स.)।

इसरोसंस्थायाः वैज्ञानिकः डॉ. प्रकाश चौहानः जलसंरक्षणस्य भारतीयज्ञानपरम्परायाश्च सम्बन्धे उक्तवान् यत् वेदेषु पुराणेषु च नद्यः जीवनस्य आधाररूपेण स्वीकृताः सन्ति तथा भारतीयसंस्कृतौ तासां पूजनपरम्परा प्राचीनकालात् प्रचलिता अस्ति। हिमनदीनां विषये भाषमाणः सः सावधानतां प्रदत्तवान् यत् यदि आगामी पञ्चाशद्वर्षपर्यन्तं हिमनद्यः एतेनैव वेगेन द्रविष्यन्ति तर्हि विश्वं गम्भीरं जलसंकटं सम्मुखीकर्तुं बाध्यं भविष्यति।

एषा चर्चा डॉ. चौहानेन मध्यप्रदेशशासनस्य संस्कृतिविभागाधीनस्य वीरभारतन्यासस्य आयोजनत्वेन भारतभवने भोपालनगरे आयोजिते सदानीरासमागमस्य द्वितीयदिने गुरुवासरे पञ्चमहाभूतेषु अग्नितत्त्वम् आकाशतत्त्वम् इत्येतयोः विषययोः विमर्शसमये कृता। सः सरस्वतीनद्याः तस्याः सम्बद्धायाश्च प्राचीनसभ्यतायाः उल्लेखं कृत्वा उक्तवान् यत् विज्ञानं प्रौद्योगिकी च केवलं पत्रेषु सीमितं न भवेत् अपितु व्यवहारभूमौ अपि तस्य अनुप्रयोगः आवश्यकः अस्ति। ऊर्जा संरक्षणार्थं फ्लोटिंग सोलर इत्यादीनां विकल्पानामपि महत्त्वं तेन प्रतिपादितम्। अस्मिन् अवसरे वीरभारतन्यासेन सर्वेभ्यः अतिथिभ्यः सदानीरासमागमस्मृतिचिह्नं प्रदाय सम्मानः कृतः।

अग्नितत्त्वम् ऊर्जा बुद्धिमत्ता आत्मशुद्धेश्च प्रतीकम् : एचएन श्रीनिवासः

टाटाट्रस्टस्य सलाहकारः एचएन श्रीनिवासः अग्नितत्त्वं ऊर्जा बुद्धिमत्ता आत्मशुद्धेश्च प्रतीकरूपेण वर्णितवान्। तेन उक्तं यत् अग्निः केवलं वह्निः नास्ति अपितु जीवनस्य चेतनायाः ऊर्जायाश्च मूलाधारः अस्ति। चिताग्नेः चित्शक्तेश्च उल्लेखं कृत्वा तेन मानसिकशान्तेः आत्मसंयमस्य च जीवने अनिवार्यता प्रतिपादिता। उद्योगान् संस्थाश्च प्रति हरितऊर्जायाः स्वीकृतिः विद्युत्गतिशीलतायाः प्रोत्साहनम् तथा रूफटॉपसोलरस्य अधिकप्रयोगः कर्तव्यः इति आह्वानं कृतम्। जमशेदजी टाटा इत्यस्य दूरदर्शिनः चिन्तनस्य उल्लेखं कृत्वा तेन पर्यावरणस्य समाजस्य च संतुलनं विकासस्य मूलाधारः इति कथितम्।

भारतीयसंस्कारेषु अग्नितत्त्वस्य विशेषमहत्त्वम् : प्रो. रामनारायण द्विवेदी

काशीविद्वत्परिषदः प्रो. रामनारायण द्विवेदी स्वीयोद्बोधने उक्तवान् यत् भारतीयसंस्कारेषु अग्नितत्त्वस्य विशेषमहत्त्वम् अस्ति। जन्मसंस्कारात् आरभ्य अन्त्येष्टिसंस्कारपर्यन्तं प्रत्येकः धार्मिकः सांस्कृतिकश्च संस्कारः अग्नेः विना अपूर्णः मन्यते। अग्निः केवलं शरीरं न शुद्धयति अपितु वातावरणं अन्यतत्त्वानि च शुद्धीकर्तुं समर्थः अस्ति। माता जानक्याः अग्निपरीक्षायाः ऋषिमुनीनां साधनायाश्च उदाहरणं प्रदाय तेन अग्नेः आध्यात्मिकं सांस्कृतिकं च महत्त्वं प्रकाशितम्। पारम्परिकजीवनशैल्याः उल्लेखं कृत्वा भोजनानन्तरं तत्क्षणं जलपानं न करणीयम् इति मान्यतां पाचनाग्निना सम्बद्धां कृत्वा सः उक्तवान् यत् अग्निः ऊर्जा तेजस्विता संस्काराणां च सन्देशवाहिका अस्ति।

निरन्तरं प्राकृतिकसंसाधनानां दोहनं मानवतायाः संकटकारणम् : पीयूष प्रेरतरिया

ओएनजीसी संस्थायाः सीएसआर प्रमुखः पीयूष प्रेरतरिया वर्धमानस्य जलसंकटस्य पर्यावरणीयचुनौत्याश्च विषये चिन्तां व्यक्तवान्। तेन उक्तं यत् अद्यतनपीढ्या तालाबाः पारम्परिकजलस्रोतांसि च केवलं चलचित्रेषु दृष्टानि सन्ति यदा कतिपयेषु नगरेषु जलसमाप्तेः स्थितिः उत्पद्यते। तेन प्राकृतिकसंसाधनानां सीमितोपयोगस्य पुनर्चक्रणस्य अपशिष्टपदार्थानां पुनःप्रयोगस्य च आवश्यकता प्रतिपादिता। तेन उक्तं यत् प्रायः चत्वारिंशत्प्रतिशतं भोजनं व्यर्थं भवति तथा एकः स्रवन् नलकूपः वर्षपर्यन्तं सहस्रशः लीटरपरिमितं जलं नाशयति। तेन प्लास्टिकस्य न्यूनोपयोगः जलसंरक्षणं शिक्षामाध्यमेन पर्यावरणसंरक्षणस्य जनान्दोलनरूपेण विकासश्च करणीयः इति आवाहनं कृतम्।

भारतीयसनातनपरम्परा पञ्चतत्त्वाधारिता अस्ति : विनयकुमार पाण्डेयः

वैदिकविज्ञानकेन्द्रस्य बीएचयू संस्थायाः विनयकुमार पाण्डेयः भारतीयज्ञानपरम्परायाः वैदिकविज्ञानस्य च विषये स्वविचारान् प्रस्तुतवान्। तेन उक्तं यत् भारतीयज्योतिषं केवलं भविष्यवाणीमाध्यमं नास्ति अपितु गणितविज्ञानाधारितः व्यापकज्ञानव्यवस्था अस्ति। अग्नितत्त्वं सृष्टेः उत्पत्त्या सम्बद्धं कृत्वा तेन विद्यार्थिनः वेदविज्ञानस्य अध्ययनाय प्रेरिताः। तस्य मते भारतीयसनातनपरम्परा पञ्चतत्त्वाधारिता अस्ति तथा च अस्याम् प्रकृतेः प्रत्येकतत्त्वस्य वैज्ञानिकमहत्त्वं वर्णितम् अस्ति। तेन उक्तं यत् प्राचीनग्रन्थेषु ऊर्जा प्रकृति पर्यावरणसम्बद्धाः अनेकाः वैज्ञानिकसिद्धान्ताः पूर्वमेव विद्यमानाः सन्ति। आधुनिकविज्ञानस्य संरक्षणस्य ऊर्जा संतुलनस्य भारतीयपरम्परायाश्च समन्वयेन प्रकृतेः सततविकासाय सामूहिकप्रयत्नानां आवश्यकता अस्ति इति तेन बलं दत्तम्।

उद्योगैः जलोपयोगेन सह जलप्रतिदाननीतिः निर्मातव्या : चाको थॉमसः

टाटासन्स संस्थायाः समूहमुख्यसस्टेनेबिलिटी अधिकारी चाको थॉमसः स्वसम्बोधने सस्टेनेबिलिटी इत्यस्य आर्थिकविकासस्य सामाजिकसुधारस्य च संतुलनरूपेण व्याख्यानं कृतवान्। तेन टाटासमूहस्य मूल्यानां पर्यावरणीयप्रतिबद्धतानां च विषये चर्चा कृता तथा ‘प्रोजेक्ट आलिंगना’ इत्यस्य उल्लेखः कृतः यस्य त्रयः प्रमुखस्तम्भाः सन्ति नेटजीरो सर्कुलरइकॉनोमी जैवविविधतासंरक्षणं च। जलसंरक्षणस्य विषये टाटासमूहस्य त्रयः दृष्टिकोणाः तेन प्रतिपादिताः तथा उद्योगाः केवलं व्यवसायपर्यन्तं सीमिताः न भवितुमर्हन्ति इति कथितम्। नमामिगङ्गे इत्यादीनां अभियानानां अन्येषु राज्येष्वपि कार्यान्वयनस्य आवश्यकता तेन प्रतिपादिता। तेन उक्तं यत् उद्योगैः जलोपयोगेन सह प्रकृतेः प्रति जलप्रतिदाननीतिः निर्मातव्या। द्विसहस्रत्रिंशत्तमवर्षपर्यन्तं टाटासमूहः यावत् जलं उपयोगं करिष्यति तावत् जलं प्रत्यर्पयितुं लक्ष्यं धारयति।

सस्टेनेबिलिटी अधुना विकल्पः न अपितु कालस्य अनिवार्या आवश्यकता : अविजीत राजू

हिण्डाल्को संस्थायाः सीएसआर प्रमुखः अविजीत राजू उक्तवान् यत् सस्टेनेबिलिटी अधुना विकल्पः नास्ति अपितु समयस्य अनिवार्या आवश्यकता अस्ति। तेन शिक्षा स्वास्थ्य आजीविकासम्बद्धानां प्रयासानां उल्लेखं कृत्वा समुदायस्य प्रति उत्तरदायित्वं सर्वोपरि इति कथितम्। पञ्चतत्त्वाधारितजीवनशैल्याः उल्लेखं कृत्वा तेन उक्तं यत् सततविकासस्य विषये वक्तुं सुलभम् अस्ति किन्तु तस्य कार्यान्वयनं कठिनं व्ययसाध्यं च अस्ति।

जलसंरक्षणम् अद्यतनकाले अनिवार्यम् : अनुपम निधिः

वेदान्ताग्रुपस्य सीएसआर प्रमुखः अनुपम निधिः उक्तवान् यत् भविष्यस्य उन्नयनं केवलं समाजस्य न अपितु उद्योगानामपि उत्तरदायित्वम् अस्ति। पृथिवीं प्राथमिकतत्त्वरूपेण अग्निं च ऊर्जायाः प्रतीकरूपेण वर्णयन् तेन हरितऊर्जाधारितजिङ्कउत्पादनस्य उल्लेखः कृतः। लक्षशः जनाः सहस्रशः ग्रामाः कृषकाः च पर्यावरणसंरक्षणसम्बद्धेषु प्रयासेषु सहभागीभवन्ति। जलसंरक्षणसम्बद्धानां सांख्यिकतथ्यानां उल्लेखं कृत्वा तेन शासनस्य जनसामान्यस्य च संयुक्तप्रयत्नाः नीतिस्तरे प्रोत्साहनं उत्तमदत्तांशप्रबन्धव्यवस्थायाश्च आवश्यकता प्रतिपादिता।

प्रकृतिसंरक्षणाय स्वयंसेवा दृढमञ्चम् : उत्सवी दीपकः

कैल्डेरिस संस्थायाः समूहसस्टेनेबिलिटी प्रमुखा उत्सवी दीपकः स्ववक्तव्ये व्यवसायस्य सस्टेनेबिलिटी इत्यस्य च सहगमनस्य आवश्यकता प्रतिपादिता। तया उक्तं यत् कटनीस्थितस्य संयन्त्रस्य सम्पूर्णम् इकोसिस्टम वर्षाजलसंचयनाधारितम् अस्ति। सीएसआर केवलं वित्तपोषणं नास्ति अपितु उत्तमसमन्वयसंरचनयोः अपि चुनौती अस्ति इति कथयन्त्या तया ग्रामेषु समाधानान्वेषणार्थं विश्वविद्यालयविद्यार्थिनां सर्वेक्षणेषु सहभागित्वस्य उदाहरणं दत्तम्। तया उक्तं यत् जिलास्तरे संस्थानां कॉर्पोरेटसंस्थानां सामाजिकसंगठनानां च मध्ये उत्तमतालमेलस्य आवश्यकता अस्ति। स्वयंसेवां दृढमञ्चरूपेण वर्णयन्त्या तया तस्याः अधिकसंरचितप्रभावीकरणस्य आवश्यकता प्रतिपादिता।

यावान् महान् जीवनः तावती महान् संस्कृति : श्रीराम तिवारी

अन्ते मुख्यमन्त्रिणः संस्कृतिसलाहकारः वीरभारतन्यासस्य न्यासिसचिवः श्रीराम तिवारी सर्वेषां विद्वतां प्रति आभारं प्रकटितवान्। तेन उक्तं यत् बहुधा संस्कृतिः उपेक्षितरूपेण दृश्यते किन्तु यावान् महान् जीवनः भवति तावती एव महान् संस्कृति भवति। मुख्यमन्त्री मोहन यादवस्य उल्लेखं कृत्वा तेन उक्तं यत् सः सम्भवतः प्रथमः मुख्यमन्त्री अस्ति यस्य समीपे विज्ञानप्रौद्योगिकीविभागः अस्ति। पूर्वं जनाः विज्ञानं गम्भीरतया न स्वीकरोति स्म किन्तु अधुना चिन्तनदिशा परिवर्तते।

---------------

Hindusthan Samachar / Dheeraj Maithani