Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, २८ मे-मासः (हि.स.)। छत्तीसगढस्य वित्तमन्त्री ओपी-चौधरी-महोदयः अद्य गुरुवासरे जांजगीर-चाम्पा-जनपदस्य विविधकार्यक्रमेषु सहभागं करिष्यति। निर्धारितकार्यक्रमानुसारं सः अपराह्णे त्रिवादने कापन-क्षेत्रे क्षेत्रीयसभायाः अधरिया-सामुदायिक-भवनस्य उद्घाटनकार्यक्रमे च सहभागं करिष्यति।
ततः परं श्री-चौधरी सायं ४:४५ वादने जंगलवा-डबरी-क्षेत्रे स्वर्ण-मण्डपम्-सामुदायिक-भवनस्य लोकार्पणकार्यक्रमे सहभागं करिष्यति। तथा सायं ६:३० वादने पोंडीशङ्कर-क्षेत्रे कहरा-समाजेन आयोजितायां महासभायां सहभागं कृत्वा समाजजनान् सम्बोधयिष्यति।
Hindusthan Samachar / Divya Ranjan