मुख्यमंत्री सायो वीर सावरकरस्य जयंत्याम् तम् अनमत्
राष्ट्र प्रथमस्य भावनायाः अदम्य राष्ट्रभक्तेश्च प्रेरणास्रोतः सावरकरः : मुख्यमंत्री सायः रायपुरम्, 28 मईमासः (हि.स.)। छत्तीसगढ़प्रदेशस्य मुख्यमन्त्री विष्णुदेव साय अद्य गुरुवासरे महान् क्रान्तिकारिणं प्रखरराष्ट्रवादीचिन्तकं स्वातन्त्र्यवीरं विना
स्वातंत्र्य वीर विनायक दामोदर सावरकर


मुख्यमंत्री विष्णुदेव साय


राष्ट्र प्रथमस्य भावनायाः अदम्य राष्ट्रभक्तेश्च प्रेरणास्रोतः सावरकरः : मुख्यमंत्री सायः

रायपुरम्, 28 मईमासः (हि.स.)।

छत्तीसगढ़प्रदेशस्य मुख्यमन्त्री विष्णुदेव साय अद्य गुरुवासरे महान् क्रान्तिकारिणं प्रखरराष्ट्रवादीचिन्तकं स्वातन्त्र्यवीरं विनायकदामोदरसावरकरं तस्य जयन्त्याः अवसरे श्रद्धाञ्जलिं समर्प्य नमनं कृतवान्।

मुख्यमन्त्री साय उक्तवान् यत् वीरसावरकरस्य जीवनम् अदम्यसाहसस्य राष्ट्रभक्तेः त्यागस्य अटूटसंकल्पस्य च प्रतीकं अस्ति, यत् आगामिपीढीः निरन्तरं प्रेरयिष्यति।

मुख्यमन्त्री साय स्वसन्देशे उक्तवान् यत् भारतस्य स्वतन्त्रतायै वीरसावरकरेण स्वस्य सर्वस्वं समर्पितम्। प्रतिकूलपरिस्थितिषु कठिनसंघर्षेषु च अपि राष्ट्रहिते तस्य प्रतिबद्धता कदापि दुर्बला न अभवत्। तस्य सम्पूर्णं जीवनं राष्ट्रसेवायाः देशभक्तेः च अमरगाथा अस्ति।

मुख्यमन्त्री साय उक्तवान् यत् वीरसावरकरस्य “राष्ट्रं प्रथमम्” इति विचारः प्रत्येकं भारतवासिनं देशहितं सर्वोपरि स्थापयित्वा कार्यं कर्तुं प्रेरयति। तस्य जीवनं कर्तव्यनिष्ठायाः समर्पणस्य आत्मबलस्य च अद्वितीयम् उदाहरणम् अस्ति।

तेन उक्तं यत् वीरसावरकरेण स्वतन्त्रताआन्दोलने महत्त्वपूर्णा भूमिका निर्वहिता तथा स्वविचारैः देशवासिषु राष्ट्रभक्तेः चेतना जागृता। तस्य संघर्षपूर्णं प्रेरणादायकं च जीवनं देशस्य युवजनानां कृते सर्वदा मार्गदर्शकं भविष्यति।

मुख्यमन्त्री उक्तवान् यत् राष्ट्राय समर्पणं साहसं सेवा भावना च एव वीरसावरकरं महान् करोति। अद्य तस्य जयन्त्याः अवसरे सम्पूर्णः देशः तस्य योगदानं स्मरति तथा तस्य आदर्शेभ्यः प्रेरणां गृह्णाति।

---------------

Hindusthan Samachar / Dheeraj Maithani