Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २८ मे-मासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी-महोदयः स्वतन्त्रतासेनानिने विनायकदामोदर-सावरकराय तस्य जयन्त्यवसरे भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। तेन गुरुवासरे सामाजिक-माध्यम-मञ्चे “एक्स” इत्यत्र संदेशं विलिख्य सावरकरस्य योगदानं राष्ट्रभक्तिं च स्मृतवान्।
मुख्यमन्त्रिणा स्वसन्देशे उक्तं यत् स्वातन्त्र्यवीर-सावरकरस्य अतुलनीयः बलिदानभावः, अदम्यं साहसम्, मातृभूमिं प्रति समर्पणं च भारतस्य स्वतन्त्रता-संग्रामाय नूतनां प्रेरणां प्रदत्तवत्। तेन उक्तं यत् राष्ट्रस्य स्वतन्त्रतायै सावरकरेण कृतः संघर्षः त्यागः च अद्यापि लक्षशः राष्ट्रवादिनः प्रेरयति।
तेन सावरकरः दूरदर्शीविचारकः महान् स्वतन्त्रतासेनानी च इति वर्णितः। तेन उक्तं यत् तस्य जीवनं देशभक्तेः, साहसस्य, राष्ट्रसेवायाः च प्रतीकं वर्तते।
उल्लेखनीयं यत् विनायक-दामोदरसावरकरः “स्वातन्त्र्यवीर-सावरकरः” इति नाम्ना अपि प्रसिद्धः आसीत्। सः भारतीय-स्वतन्त्रता-आन्दोलनस्य प्रमुखक्रान्तिकारिषु अन्यतमः आसीत्। तेन ब्रिटिश-शासनस्य विरुद्धं अनेकासु आन्दोलन-क्रियासु सहभागिता कृता तथा स्वविचारैः लेखनैः च युवासु राष्ट्रभक्तेः भावनां जागरयितुं महत्त्वपूर्णं कार्यं कृतम्।
Hindusthan Samachar / Divya Ranjan