Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ मे-मासः (हि.स.)। तमिलनाडु-राज्यस्य मुख्यमन्त्री सी.जोसेफ-विजयः मुख्यमन्त्री-पदं स्वीकृत्य बुधवासरे (२७ मे) प्रथमवारं देहली-यात्रायाम् आगतः। अस्मिन् अवसरे तेन प्रधानमन्त्री नरेन्द्र-मोदिना वित्तमन्त्रिणा निर्मला-सीतारमण्या च सह साक्षात्कार: कृत:। ततः परं सः अद्य प्रातःकाले चेन्नई-नगरं प्रति पुनः प्रस्थितः। देहली-प्रथम-यात्रायां सोनिया-गान्धी, राहुल-गान्धी, कांग्रेस-अध्यक्षः खरगे इत्यादिभिः कांग्रेसीय-नेतृभिः सह साक्षात्कारं न कृतवान् इति कारणेन प्रश्नाः उत्पन्नाः अभवन्। एतासु घटनासु विरामं दत्त्वा राज्यसभा-सदस्यः एम.क्रिस्टोफर-तिलकः उक्तवान् यत् कांग्रेस-नेतृत्वं कर्नाटक-झारखण्ड-सम्बद्ध-विषयेषु व्यस्तम् आसीत्। मुख्यमन्त्री विजयः शीघ्रमेव पुनः देहलीम् आगमिष्यति, तदा च कांग्रेस-नेतृभिः सह साक्षात्कार: भविष्यति।
एम.क्रिस्टोफर-तिलकः पत्रकारैः सह संवादे उक्तवान् यत् तमिलनाडु-राज्यस्य मुख्यमन्त्रिणः विजयस्य देहली-प्रवास: पूर्णतया आधिकारिकः आसीत् तथा कांग्रेस-नेतॄणां व्यस्ततायाः कारणात् साक्षात्कार: स्थगित: अभवत्। तेन उक्तं यत् विजयः प्रधानमन्त्रिणा सह साक्षात्कारं कृत्वा पुनरागमनस्य निर्णयं कृतवान् तथा अग्रिमस्यां यात्रायां राहुल-गान्धिना सोनिया-गान्ध्या च सह साक्षात्कार: निश्चितरूपेण भविष्यति।
Hindusthan Samachar / Divya Ranjan