Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, २८ मे-मासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः गुरुवासरे ‘पद्मश्री’-सम्मानेन सम्मानितस्य प्रसिद्ध-शायरस्य डॉ.बशीर-बद्रस्य निधनम् प्रति गहनं दुःखं प्रकटितवान् तथा तस्मै विनम्र-श्रद्धाञ्जलिं समर्पितवान्।
मुख्यमन्त्री डॉ.यादवः सामाजिक-माध्यमेन ‘एक्स’ इत्यस्य माध्यमेन उक्तवान् यत् ‘पद्मश्री’-सम्मानेन विभूषितस्य प्रसिद्ध-शायरस्य डॉ.बशीर-बद्रस्य निधनम् अत्यन्तं दुःखदं वर्तते। तस्मै विनम्र-श्रद्धाञ्जलिः। मम संवेदनाः शोकसन्तप्त-परिजनै: सह सन्ति। डॉ.बद्रः स्वकीय-शायरी-इत्यनया मानवतया सह जीवितुं सन्देशं दत्तवान्। तेन स्वकीयाभिः रचनाभिः शताब्द्याः महान् शायर इति स्थानं प्राप्तम् तथा जीवनं सरलतया नेतुं सूत्राणि अपि प्रदत्तानि। तस्य लेखने अनुपमा रचनात्मकता दृश्यते।
मुख्यमन्त्री डॉ.यादवः बाबा-महाकालं प्रति दिवंगत-पुण्यात्मनः शान्त्यर्थं प्रार्थनाम् अकरोत् तथा शोकसन्तप्त-परिजनान् प्रशंसकांश्च प्रति संवेदनाः व्यक्तवान्।
उल्लेखनीयम् अस्ति यत् प्रसिद्धः शायर डॉ.बशीर-बद्रः गुरुवासरे अपराह्णे भोपाल-नगरे दिवंगतः। सः एकनवतिवर्षीयायां वयसि अन्तिम-श्वासं त्यक्तवान्। डॉ.बशीर-बद्रः दीर्घकालात् ‘डिमेन्शिया’ नामक-रोगेण पीडितः आसीत्। तस्य स्मरण-शक्तिः नष्टा जाता आसीत् तथा सः जनान् अपि परिचेतुं न अशकत्। गत-किञ्चित्कालात् तस्य स्वास्थ्यावस्था निरन्तरं अवनमति स्म। तस्य निधन-समाचारात् लक्षाधिकेषु प्रशंसकेषु शोक-तरङ्गः व्याप्तः।
Hindusthan Samachar / Divya Ranjan