इतिहासस्य पृष्ठेषु 29 मईमासः - यदा मानवद्वारा विश्वस्य सर्वतोन्नते शिखरे एवरेस्ट इत्यत्र प्रप्रथमम् उत्तोलितः विजयध्वजा
देशस्य विश्वस्य च इतिहासे २९ मई तिथेः विशेषं महत्त्वम् अस्ति। अस्मिन्नेव दिने वर्षे १९५३ तमे मानवइतिहासस्य एकः महान् उपलब्धिलेखः अभवत्, यदा द्वौ पर्वतारोहकौ विश्वस्य सर्वोच्चशिखरं माउण्ट एवरेस्ट प्रथमवारं सफलतया प्राप्य इतिहासं रचितवन्तौ। अस्मिन्
787254e695375a0c99c091958195c6d8_1477220689.jpg


देशस्य विश्वस्य च इतिहासे २९ मई तिथेः विशेषं महत्त्वम् अस्ति। अस्मिन्नेव दिने वर्षे १९५३ तमे मानवइतिहासस्य एकः महान् उपलब्धिलेखः अभवत्, यदा द्वौ पर्वतारोहकौ विश्वस्य सर्वोच्चशिखरं माउण्ट एवरेस्ट प्रथमवारं सफलतया प्राप्य इतिहासं रचितवन्तौ।

अस्मिन् दिने न्यूजीलैण्डदेशीयः पर्वतारोहकः एडमण्ड हिलेरी तथा नेपालदेशस्य प्रसिद्धः शेरपा तेनजिंग नोर्गे हिमाच्छादितं दुर्गमं चुनौतीपूर्णं च माउण्ट एवरेस्ट शिखरं प्राप्य असम्भवमिव मन्यमानं स्वप्नं साकारं कृतवन्तौ।

तस्मिन् समये एवरेस्टारोहणं विश्वस्य अत्यन्तकठिनचुनौतिषु अन्यतमं मन्यते स्म। कठोरवातावरणं न्यूनप्राणवायुः संकटपूर्णमार्गाश्च सन्ति स्म, तथापि उभौ पर्वतारोहकौ साहसं धैर्यं दृढसंकल्पं च प्रदर्श्य सफलतां प्राप्तवन्तौ।

अस्य ऐतिहासिकस्य उपलब्धेः अनन्तरं एडमण्ड हिलेरी इत्यस्मै ब्रिटिशमहाराज्ञ्या “नाइट” इति उपाधिः प्रदत्ता। तेनजिंग नोर्गे अपि सम्पूर्णविश्वे साहसस्य प्रेरणायाश्च प्रतीकरूपेण प्रसिद्धः अभवत्।

महत्त्वपूर्णाः घटनाचक्राः

१६५८ - सामुगढयुद्धे औरंगजेबेन दाराशिकोहः पराजितः, दिल्लीसिंहासने च अधिकारः कृतः।

१९२२ - इक्वाडोरदेशः स्वातन्त्र्यं प्राप्तवान्।

१९४७ - इण्डियन स्टैण्डर्ड इन्स्टिट्यूट संस्थायाः स्थापना अभवत्।

१९५३ - शेरपा तेनजिंग तथा न्यूजीलैण्डदेशीयः पर्वतारोहकः एडमण्ड हिलेरी इतिहासे प्रथमवारं माउण्ट एवरेस्ट शिखरं प्राप्नुवन् सफलतां प्राप्तवन्तौ।

१९६८ - दारासिंहेन पहलवानीविश्वचैम्पियनशिप् स्पर्धायां विजयः प्राप्तः।

१९७० - सोवियतसङ्घेन भूमिगतपरमाणुपरीक्षणं कृतम्।

१९८५ - यूरोपीय फुटबॉलकपस्पर्धायां द्वयोः दलयोः समर्थकानां संघर्षे ३९ जनाः मृताः।

१९८७ - भारतस्य पूर्वप्रधानमन्त्री चौधरी चरणसिंहस्य निधनम्।

१९८८ - पाकिस्तानदेशस्य राष्ट्रपति जिया उल हक् इत्यनेन सरकारः बर्खास्तीकृतः, संसद् च भङ्गीकृता।

१९९० - बोरिस येल्तसिन् सोवियतसङ्घस्य राष्ट्रपतिः निर्वाचितः।

१९९० - दक्षिणामेरिकादेशे पेरू इत्यत्र भीषणः भूकम्पः अभवत्।

१९९९ - नाइजीरियादेशे नागरिकसत्तायाः स्थापना अभवत्।

१९९९ - “डिस्कवरी” नामकं अन्तरिक्षयानं अन्तरराष्ट्रीयान्तरिक्षकेन्द्रे सम्बद्धम्। एषा उपलब्धिः प्रथमवारं प्राप्ता।

२००३ - ब्रिटिशप्रधानमन्त्री टोनी ब्लेयर इराकदेशस्य पुनर्निर्माणकार्याणां मूल्याङ्कनार्थं बसरा नगरं प्राप्तवान्।

२००४ - म्यांमारदेशे चक्रवातेन १४० जनानां मृत्युः अभवत्। पाकिस्तानदेशेन परमाणुवैज्ञानिके अब्दुल कादिर खान् इत्यस्मिन् आरोपितेषु प्रतिबन्धेषु शिथिलता प्रदत्ता।

२००७ - जापानदेशस्य रियो मोरी “मिस यूनिवर्स २००७” अभवत्।

२००८ - भारतीयजनतापक्षस्य नेता वी एस येदुरप्पा कर्नाटकप्रदेशस्य मुख्यमन्त्रिरूपेण शपथं गृहीतवान्।

२००८ - इन्टरनेट् अन्वेषणयन्त्रं गूगल् माइस्पेस् नाम्ना सामाजिकजालस्थलेन सह ईमेलसम्बन्धी समझौतां कृतवान्।

२००८ - नेपालसरकारेण राजतन्त्रस्य अन्तः कृत्वा गणतन्त्रस्य घोषणा कृता। राजमहलादिषु सर्वेषु स्थानेषु राजतन्त्रस्य चिह्नानि अपसारितानि, राष्ट्रध्वजस्य मान्यता च प्रदत्ता।

२०१० - अमेरिका भारतयोः मध्ये २००८ तमे वर्षे सम्पन्ने १२३ समझौते परमाणुइन्धनस्य रिप्रोसेसिंगविषये अमेरिकीयप्रशासनेन सहमति प्रदत्ता।

२०१० - भारतस्य राष्ट्रपतिः प्रतिभा पाटिल चीनदेशस्य हेनानप्रान्तस्य लुओयाङ् नगरे प्रथमशताब्दीयस्य प्राचीनस्य श्वेताश्वमन्दिरपरिसरे भारतीयशैल्याः बौद्धमन्दिरस्य लोकार्पणं कृतवती। भारतदेशेन निर्मिते अस्मिन् मन्दिरे प्रायः १८ कोटिरूप्यकाणां व्ययः अभवत्। अस्य निर्माणे त्रयः वर्षाः गताः।

२०१५ - भारतस्य तेलंगानाप्रदेशे आन्ध्रप्रदेशे च भीषणोष्णतायाः प्रकोपेन १८०० जनानां मृत्युः अभवत्।

जन्मः

१८६५ - रामानन्द चट्टोपाध्यायः पत्रकारिताजगतः अग्रगण्यः व्यक्तिः आसीत्।

१९०५ - हीराबाई बरोदेकर किरानाघराणायाः हिन्दुस्तानीशास्त्रीयगायिका आसीत्।

१९०६ - कन्हैयालाल मिश्र प्रभाकर प्रसिद्धः हिन्दी-निबन्धकारः आसीत्।

१९४२ - हुल्लड़ मुरादाबादी भारतस्य प्रसिद्धः व्यङ्ग्यकविः आसीत्।

१९५४ - मदन कश्यप भारतस्य प्रसिद्धः कविः अस्ति।

१९७७ - एल मुरुगन् भारतीयजनतापक्षस्य राजनीतिज्ञः अधिवक्ता च अस्ति।

निधनम्

१९३३ - लोकराम नयनराम शर्मा भारतस्य स्वतन्त्रतासेनानी पत्रकारः संगठनकर्ता च आसीत्।

१९७२ - पृथ्वीराज कपूर हिन्दीचलच्चित्रस्य रंगमञ्चस्य च इतिहासपुरुषः आसीत्। तेन मुम्बईनगरे “पृथ्वी थिएटर” संस्थापितम्।

१९७७ - सुनीति कुमार चट्टोपाध्यायः भारतस्य प्रसिद्धः भाषाविद् साहित्यकारः विद्याशास्त्री च आसीत्।

१९८७ - चौधरी चरणसिंहः भारतस्य पञ्चमः प्रधानमन्त्री आसीत्, यः कृषकाणां स्वरं प्रबलतया उद्घोषितवान्।

२०२० - योगेशः प्रसिद्धः भारतीयगीतकारः लेखकः च आसीत्।

२०२० - अजीत जोगी भारतीयराष्ट्रीयकाङ्ग्रेसपक्षस्य राजनीतिज्ञः राजनेता च आसीत्।

महत्त्वपूर्णाः अवसराः

माउण्ट एवरेस्ट दिवसः।

Hindusthan Samachar / Dheeraj Maithani