Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २८ मे-मासः (हि.स.)। दिल्ली-प्रदेशस्य मुख्यमन्त्री रेखा-गुप्ता उक्तवती यत् दिल्ली-एनसीआर-क्षेत्रं यातायात-सम्मर्द-मुक्तं सुरक्षितं भविष्योपयुक्तं च परिवहन-जालरूपेण विकसितुं केन्द्र-सर्वकारः दिल्ली-सर्वकारश्च संयुक्तरूपेण वृहद्-स्तरे आधुनिक-सड़क-संपर्क-परियोजनासु कार्यं कुर्वन्ति। अस्य अन्तर्गतं नूतन-द्रुतमार्गैः, सुरङ्गैः, उच्च-सेतुमार्गैः, संपर्क-मार्गैश्च माध्यमेन दिल्ली-एनसीआर-क्षेत्रस्य परिवहन-जालं आधुनिकं निर्बाधं च क्रियते।
हाल एव केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन-गडकरी इत्यनेन सह दिल्ली-एनसीआर-क्षेत्रस्य प्रमुख-सड़क-संपर्क-परियोजनानां विषये सभा आयोजिता। सभानन्तरं केन्द्रीय-मन्त्रिणा मुख्यमन्त्रिण्यै सूचितं यत् दिल्लीं यातायात-सम्यर्द-मुक्तां कर्तुं, यातायात-सम्मर्दं न्यूनीकर्तुं, उत्तम-क्षेत्रीय-संपर्कं सुनिश्चितीकर्तुं च अनेका नूतन-द्रुतमार्ग-सुरङ्ग-उच्च-सेतुमार्ग-संपर्क-मार्ग-परियोजनाः आरभ्यन्ते।
मुख्यमन्त्री गुरुवासरे वक्तव्यं प्रदाय उक्तवती यत् अर्बन-एक्सटेन्शन-रोड्-२ (यूईआर-२) विस्तार-परियोजनया दिल्ली-देहरादून-द्रुतमार्ग-परियोजनायाः अन्तर्गतं प्रायः १७ किलोमीटर-दीर्घस्य षट्-पङ्क्तियुक्तस्य प्रायः ३५०० कोटि-रूप्यक-व्यययुक्तस्य मार्गस्य निर्माणं भविष्यति। एषा संपर्क-परियोजना ट्रोनिका-सिटी-समीपे दिल्ली-देहरादून-द्रुतमार्गं यूईआर-२ इत्यनेन सह संयोजयिष्यति। अनेन आईजीआई-विमानस्थानक-बारापुलानालिका-मुकरबाचतुष्पथ-सिंघुसीमा-आश्रम-बदरपुर-मार्गेषु यातायात-सम्मर्द: न्यून: भविष्यति। सहैव द्वारका-रोहिणी-पंजाबीबाग-गुरुग्राम-क्षेत्रेभ्यः देहरादून-द्रुतमार्गं प्रति प्रत्यक्ष-संपर्कः भविष्यति। परियोजना अधुना संरेखण-निर्धारणस्य चरणे अस्ति तथा डिसेम्बरमास: २०२६ पर्यन्तं कार्यारम्भस्य लक्ष्यं निर्धारितम् अस्ति।
तया उक्तं यत् दिल्ली-देहरादून-द्रुतमार्गात् नोएडा-फरीदाबाद-संपर्क-सेतुमार्ग-परियोजनायाः अन्तर्गतं प्रायः ६५ किलोमीटर-दीर्घस्य षट्-पङ्क्तियुक्तस्य ७५०० कोटि-रूप्यक-व्यययुक्तस्य मार्गस्य निर्माणं भविष्यति। एषा परियोजना दिल्ली-देहरादून-द्रुतमार्गं, दिल्ली-मेरठ-द्रुतमार्गं, डीएनडी, फरीदाबादं, यमुना-द्रुतमार्गं च परस्परं संयोजयिष्यति। अनेन लोनी-बागपत-गाजियाबाद-नोएडा-फरीदाबाद-क्षेत्राणां कृते शीघ्र-संपर्क-सुविधा भविष्यति। अस्याः परियोजनायाः कारणेन कालिन्दी-कुञ्ज-सराय-काले-खां-आउटर-रिङ्ग-रोड-मार्गेषु यातायात-सम्मर्द: न्यून: भविष्यति। सहैव अन्तर-नगरीय-मालवाहक-यातायातस्य कृते वैकल्पिकः नियंत्रित-मार्गः उपलब्धो भविष्यति। अस्याः परियोजनायाः कार्यारम्भः अपि डिसेम्बरमास: २०२६ पर्यन्तं लक्ष्यीकृतः अस्ति।
मुख्यमन्त्री उक्तवती यत् दिल्ली-अमृतसर-कटरा-संपर्क-परियोजनया यूईआर-२ इत्यनेन सह दिल्ली-कटरा-द्रुतमार्गात् आगच्छन् यातायातः द्वारका-द्रुतमार्गस्य माध्यमेन दिल्ली-गुरुग्राम-आईजीआई-विमानस्थानकं च प्रति प्रत्यक्ष-संपर्कं प्राप्स्यति। प्रायः १७ किलोमीटर-दीर्घः षट्-पङ्क्तियुक्तः १५०० कोटि-रूप्यक-व्यययुक्तः अयं मार्गः भारी-वाहनानां उत्तम-विचलनं करिष्यति, दिल्ली-एनसीआर-क्षेत्रे यातायात-सम्मर्दं न्यूनंं करिष्यति, मालवाहक-परिवहनं च अधिक: सुचारु: भविष्यति। अस्या: परियोजनायाः कार्यारम्भः मार्चमास: २०२७ पर्यन्तं लक्ष्यीकृतः अस्ति।
तया उक्तं यत् वर्तमान-यूईआर-२ इत्यस्य पार्श्वयोः सेवा-मार्ग-विकास-परियोजना अपि आरभ्यते। एषा बाह्य-दिल्ली-क्षेत्रे संपर्क-सुविधां नियोजित-नगरीय-विस्तारं च वेगयिष्यति। प्रायः २६ किलोमीटर-दीर्घायाः ६५०० कोटि-रूप्यक-व्यययुक्तायाः अस्याः परियोजनायाः अन्तर्गतं यूईआर-२ इत्यस्य उभय-पार्श्वयोः द्वितीयक-सेवा-मार्गाः विकसिताः भविष्यन्ति। १९ किलोमीटर-दीर्घस्य द्वि-पङ्क्तियुक्त-सेवा-मार्गस्य निर्माणाय १२१ कोटि-रूप्यकाणां स्वीकृतिः दत्ता अस्ति।
मुख्यमन्त्री उक्तवती यत् शिव-मूर्ति-नेल्सन-मण्डेला-मार्ग-सुरङ्ग-परियोजना दिल्ली-नगरस्य परिवहन-व्यवस्थायाः नूतनं आयामं दास्यति। प्रायः ८ किलोमीटर-दीर्घा षट्-पङ्क्तियुक्ता ७००० कोटि-रूप्यक-व्यययुक्त: एष: भूमिगत-सुरङ्ग: द्वारका-द्रुतमार्गात् वसन्त-कुञ्ज-पर्यन्तं संकेत-रहित-संपर्कं प्रदास्यति। अनेन महिपालपुर-रंगपुरी-धौलाकुआँ-क्षेत्रेषु यातायात-सम्मर्द: न्यून: भविष्यति। सहैव विमानस्थानकं प्रति राव-तुला-राम-मार्गे यातायात-सम्मर्द: न्यूनः भविष्यति। अनेन गुरुग्राम-दक्षिण-दिल्ली-क्षेत्रयोः मध्ये प्रत्यक्ष-संपर्कः अधिकं सुदृढः भविष्यति। परियोजनायै केन्द्र-सर्वकारस्य सार्वजनिक-निजी-सहभागिता-मूल्यांकन-समितेः अनुमोदनं प्राप्तम् अस्ति तथा मन्त्रिमण्डल-अनुमोदनानन्तरं कार्यारम्भः भविष्यति।
तया उक्तं यत् प्रायः २० किलोमीटर-दीर्घः षट्-पङ्क्तियुक्तः ५००० कोटि-रूप्यक-व्यययुक्तः एम्स्-महिपालपुर-गुरुग्राम-उच्च-सेतुमार्गः दिल्ली-गुरुग्राम-क्षेत्रयोः मध्ये यातायात-दबावं न्यूनीकरिष्यति। अनेन परियोजनया एम्स्-आईएनए-हौजखास-वसन्तकुञ्ज-महिपालपुर-गुरुग्राम-क्षेत्रेषु संकेत-रहित-संपर्क-सुविधा भविष्यति। धौला-कुआँ-महरौली-गुरुग्राम-मार्ग-राव-तुला-राम-मार्गेषु च यातायात-सम्मर्द: न्यून: भविष्यति। अनेन दिल्ली-गुरुग्राम-राजमार्गे यातायातसम्मर्द: न्यून: भविष्यति तथा गुरुग्रामात् नोएडा-ग्रेटरनोएडा-गाजियाबाद-क्षेत्रेषु गच्छतां वाहनानां कृते उत्तम-विचलन-सुविधा भविष्यति। एरोसिटी-रंगपुरी-छतरपुर-घिटोरनी-क्षेत्राणां संपर्कः अपि अधिकः सुदृढः भविष्यति। परियोजनायाः कार्यारम्भः एप्रिलमास: २०२७ पर्यन्तं लक्ष्यीकृतः अस्ति।
मुख्यमन्त्री उक्तवती यत् ओखला-बैराज-समीपे कालिन्दी-कुञ्ज-इण्टरचेञ्ज्-परियोजनया दिल्ली-नोएडा-फरीदाबाद-मार्गे यातायात-प्रवाहः अधिकः सुचारुः भविष्यति। प्रायः ५०० मीटर-दीर्घे षट्-पङ्क्तियुक्ते ३०० कोटि-रूप्यक-व्यययुक्ते अस्मिन् प्रकल्पे इण्टरचेञ्ज् तथा उपरि-सेतवः निर्मास्यन्ते। केन्द्रीय-सड़क-अनुसन्धान-संस्थानस्य (सीआरआरआई) व्यवहार्यता-प्रतिवेदनस्य आधारेण निर्मिताया: अस्याः योजनायाः कारणेन कालिन्दी-कुञ्ज-क्षेत्रस्य यातायात-सम्मर्द: न्यून: भविष्यति तथा नोएडा-जसोला-सरिताविहार-फरीदाबाद-क्षेत्राणां मध्ये संकेत-रहित-संपर्कः भविष्यति। परियोजनायाः कृते भूम्यधिग्रहण-प्रक्रिया आरब्धा अस्ति तथा अक्टूबरमास: २०२६ पर्यन्तं कार्यारम्भस्य लक्ष्यं निर्धारितम् अस्ति।
Hindusthan Samachar / Divya Ranjan