भाजपादलं चतुःषु राज्येषु पर्यवर्तयत् प्रदेशाध्यक्षं, दिल्ल्याः नेतृत्वं हर्ष मल्होत्रा वक्ष्यति
नवदिल्ली, 28 मईमासः (हि.स.)।भारतीयजनतापक्षेण गुरुवासरे महत्त्वपूर्णं संगठनात्मकपरिवर्तनं कृत्वा दिल्ली, हरियाणा, पंजाब तथा त्रिपुरा प्रदेशेषु नूतनप्रदेशाध्यक्षानां नियुक्तिः कृता। पक्षेण प्रकाशितस्य आधिकारिकवक्तव्यस्य अनुसारं सर्वाः नियुक्तयः तत्क
केंद्रीय राज्य मंत्री हर्ष मल्होत्रा


भाजपा द्वारा जारी विज्ञप्ति कॉपी


विज्ञप्ति की कॉपी


नवदिल्ली, 28 मईमासः (हि.स.)।भारतीयजनतापक्षेण गुरुवासरे महत्त्वपूर्णं संगठनात्मकपरिवर्तनं कृत्वा दिल्ली, हरियाणा, पंजाब तथा त्रिपुरा प्रदेशेषु नूतनप्रदेशाध्यक्षानां नियुक्तिः कृता। पक्षेण प्रकाशितस्य आधिकारिकवक्तव्यस्य अनुसारं सर्वाः नियुक्तयः तत्कालप्रभावेन प्रवर्तिताः सन्ति।

भाजपया दिल्लीनगरे केन्द्रीयराज्यमन्त्री हर्ष मल्होत्रा नूतनप्रदेशाध्यक्षरूपेण नियुक्तः। हरियाणाप्रदेशे महिला नेतृ अर्चना गुप्ता इत्यस्यै प्रदेशाध्यक्षपदस्य दायित्वं समर्पितम्।

आगामिवर्षे भविष्यतां विधानसभानिर्वाचनानां दृष्ट्या भाजपया पंजाबप्रदेशे अपि संगठनात्मकपरिवर्तनं कृतम्। पक्षेण पंजाबभाजपायाः नेतृत्वं केवलसिंह ढिल्लों इत्यस्मै समर्पितम्। तदतिरिक्तं त्रिपुराप्रदेशे विधायकः अभिषेक देबरॉय प्रदेशाध्यक्षरूपेण नियुक्तः।

भाजपया प्रकाशिते वक्तव्ये उक्तं यत् पक्षस्य राष्ट्रियाध्यक्षः नितिन नवीन एतासां नियुक्तीनां अनुमोदनं कृतवान्। पक्षनेतृत्वस्य मतम् अस्ति यत् नूतनप्रदेशाध्यक्षाः संगठनं सुदृढं कर्तुं तथा आगामिनिर्वाचनेषु श्रेष्ठप्रदर्शनं सुनिश्चितं कर्तुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यन्ति।

------------------

Hindusthan Samachar / Dheeraj Maithani