Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 28 मईमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णन्, लोकसभाध्यक्षः ओम् बिरला च सहिताः अनेके मन्त्रिणः अन्ये च अद्य ईद्-उल्-अजहा-अवसरे मुस्लिमसमुदायस्य जनान् शुभकामनाः अददुः।
राष्ट्रपतिः एक्स् माध्यमे लिखितवती यत्, ‘‘ईद्-उल्-अजहा-अवसरे अहं सर्वेभ्यः देशवासिभ्यः, विशेषतः मुस्लिमभ्रातृभगिनीभ्यः हार्दिकशुभकामनाः ददामि। एषः उत्सवः समर्पणस्य त्यागस्य बलिदानस्य च प्रतीकः अस्ति। अयं पर्वः अस्मान् मानवतायाः, विशेषतः वञ्चितवर्गाणां, सेवां कर्तुं प्रेरयति। आगच्छामः, अस्मिन् अवसरे वयं समाजे प्रेमसमरसतयोः प्रसाराय अधिकप्रतिबद्धतया अग्रे गच्छामः।’’
उपराष्ट्रपतिः उक्तवान् यत् एषः पवित्रावसरः सर्वेभ्यः शान्तिं सुखं सद्भावनां च आनयतु। बिरला उक्तवान् यत् एषः हर्षोल्लासस्य अवसरः सर्वेभ्यः शान्तिं समृद्धिं उत्तमस्वास्थ्यं च प्रददातु। समाजे भ्रातृत्वस्य सद्भावस्य एकतायाश्च भावनां अधिकं सुदृढां करोतु।
केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिन गडकरी उक्तवान् यत् एषः पवित्रावसरः एकतायाः करुणायाः उल्लासस्य च प्रेरणां ददातु तथा प्रत्येकस्मिन् हृदये उत्तमस्वास्थ्यं समृद्धिं निरन्तरसफलतां च आनयतु। विदेशमन्त्री डॉ एस जयशंकर उक्तवान् यत् एषः उत्सवः सर्वेषां जीवने करुणां सद्भावं शान्तिं च आनयतु।
काङ्ग्रेसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खरगे उक्तवान् यत् ईद्-उल्-अजहा-उत्सवः त्यागस्य आस्थायाः करुणायाः क्षमायाश्च शाश्वतगुणान् प्रदर्शयति। एषः पावनावसरः अस्मान् भ्रातृत्वभावनां गभीरां कर्तुं एकताबन्धनं सुदृढं निर्मातुं च सहकार्याय प्रेरयतु।
संसदीयकार्याणाम् अल्पसंख्यककार्याणां च मन्त्री किरेन रिजिजू उक्तवान् यत् अस्मिन् पावनावसरे हृदयं कृतज्ञतया परिपूर्णं भवतु तथा भवतः गृहम् प्रेम्णा हास्येन शान्त्या सुखैश्च समृद्धं भवतु। सूक्ष्मलघुमध्यमोद्यममन्त्री जीतनराम मांझी उक्तवान् यत् देशे शान्तिः प्रेम भ्रातृत्वं च सर्वदा स्थिरं तिष्ठतु।
---------------
Hindusthan Samachar / Dheeraj Maithani