चिकित्सकीयव्यवसाये निवेशेन युवभ्यः जीविकायाः नूतनः अवसरः निर्मास्यते : मुख्यमंत्री
रायपुरम्, 28 मईमासः (हि.स.)।पर्यटनस्य उद्योगरूपेण मान्यता प्राप्तेः, निवेशानुकूलनीतीनां तथा राज्यसर्वकारस्य दृढेच्छाशक्तेः कारणात् प्रदेशे पर्यटनतथा आतिथ्यसेवाक्षेत्रे निवेशस्य सम्भावनाः निरन्तरं सुदृढाः भवन्ति। अस्याः श्रृङ्खलायाः अन्तर्गतं मुख्यम
मुख्यमंत्री पत्रकारों से चर्चा करते हुए ,फाइल फोटो


रायपुरम्, 28 मईमासः (हि.स.)।पर्यटनस्य उद्योगरूपेण मान्यता प्राप्तेः, निवेशानुकूलनीतीनां तथा राज्यसर्वकारस्य दृढेच्छाशक्तेः कारणात् प्रदेशे पर्यटनतथा आतिथ्यसेवाक्षेत्रे निवेशस्य सम्भावनाः निरन्तरं सुदृढाः भवन्ति। अस्याः श्रृङ्खलायाः अन्तर्गतं मुख्यमंत्री विष्णुदेव साय अद्य गुरुवासरे स्वनिवासकार्यालये पर्यटनस्य प्रोत्साहनाय, पर्यटकसुविधानां विकासविस्तारयोः तथा आतिथ्यसेवाक्षेत्रे निवेशसम्बद्धाय आयोजितायां उच्चस्तरीयबैठके सहभागी अभवत्।

उपवेशने राष्ट्रस्य प्रतिष्ठितायाः ‘इण्डियन होटेल्स कम्पनी लिमिटेड्’ इत्यस्य प्रतिनिधिभिः सह शासनस्य वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।

मुख्यमंत्री विष्णुदेव सायः उपवेशने अवदत् यत् छत्तीसगढराज्यम् उत्तरतः दक्षिणपर्यन्तं नैसर्गिकविरासतायाः अमूल्या धरा अस्ति, यत्र नद्यः, पर्वताः, सघनवनानि, जलप्रपाताः, समृद्धा आदिवासीसंस्कृतिः तथा जनजातीयपरम्पराः छत्तीसगढस्य विशिष्टां परिचयं प्रददति।

मुख्यमंत्री सायः उक्तवान् यत् राज्यसर्वकारस्य उद्देश्यं विश्वं प्रति छत्तीसगढस्य वास्तविकसौन्दर्यं, सांस्कृतिकसमृद्धिं तथा प्राकृतिकवैविध्यं परिचाययितुम् अस्ति। सः अवदत् यत् पर्यटनस्य उद्योगरूपेण मान्यताप्रदानेन आतिथ्यसेवाक्षेत्रे निवेशस्य सम्भावनाः तीव्रतया वर्धिताः सन्ति तथा पर्यटकानां कृते उत्तमावासः, परिवहनव्यवस्था तथा आधुनिकसुविधानां विकासेन छत्तीसगढं आकर्षकं पर्यटनगन्तव्यं कर्तुं शक्यते।

मुख्यमंत्री सायः उक्तवान् यत् राज्ये निरन्तरं निवेशप्रस्तावाः प्राप्यन्ते तथा अस्यैव क्रमस्य अन्तर्गतं ‘इण्डियन होटेल्स कम्पनी लिमिटेड्’ इत्यया छत्तीसगढे निवेशस्य इच्छा प्रकटिता अस्ति, या प्रदेशस्य पर्यटनक्षेत्राय अत्यन्तं महत्त्वपूर्णा सिद्धा भविष्यति। सः अवदत् यत् एतादृशेन निवेशेन पर्यटनाधारसंरचना सुदृढा भविष्यति तथा स्थानीययुवकेभ्यः रोजगारस्य स्वजीविकानां च नूतनाः अवसराः निर्मास्यन्ते।

उपवेशनकाले ‘इण्डियन होटेल्स कम्पनी लिमिटेड्’ इत्यस्य प्रतिनिधिभिः मुख्यमंत्री विष्णुदेव साय समक्षं स्वनिवेशप्रस्तावस्य महत्त्वपूर्णबिन्दवः प्रस्तुताः तथा उक्तं यत्संस्था छत्तीसगढे आतिथ्यसेवाक्षेत्रे प्रायः ५०० कोटिरूप्यकाधिकनिवेशस्य योजनायां कार्यं करोति, या शीघ्रमेव अग्रे प्रवर्तिता भविष्यति। कम्पन्याः प्रतिनिधयः अवदन् यत् अस्मात् निवेशात् प्रदेशे पर्यटनाधारसंरचना सुदृढा भविष्यति तथा जीविकानान्नूतनाः अवसराः सृज्यन्ते।

वित्तमन्त्री ओपी चौधरी अवदत् यत् राज्यसर्वकारेण निवेशाय अनुकूलं वातावरणं निर्मितम् अस्ति तथा सर्वेषां आवश्यकानुमतिप्रक्रियाणां सरलीकरणं, पारदर्शिता तथा समयबद्धता सुनिश्चितीकृता अस्ति।

उपवेशने उद्योगविभागस्य अधिकारिणः निवेशप्रोत्साहननीतेः तथा उपलब्धप्रोत्साहनानां विस्तृतां जानकारीं प्रदत्तवन्तः तथा उक्तवन्तः यत् यदि कश्चित् निवेशकः ५०० कोटिरूप्यकाधिकं निवेशं करोति अथवा १००० अधिकजनानां कृते रोजगारं प्रददाति, तर्हि तस्मै ‘बी-स्पोक पॉलिसी’ इत्यस्य अन्तर्गतं अतिरिक्तप्रोत्साहनं विशेषलाभाः च प्रदास्यन्ते। सहैव पर्यटनस्य प्रोत्साहनार्थं आधारभूतसंरचना, मार्गसम्पर्कः, आवासीयसुविधाः तथा पर्यटकसेवाः सुदृढीकरणे विशेषध्यानं दीयते।

उपवेशने छत्तीसगढपर्यटनमण्डलस्य अध्यक्षः नीलू शर्मा, मुख्यसचिवः विकास शील, मुख्यमन्त्रिणः प्रमुखसचिवः सुबोध कुमार सिंह, वित्तसचिवः डॉ. रोहित यादवो, निवेशायुक्ता ऋतु सेनो, मुख्यमन्त्रिणः सचिवः राहुल भगतः, उद्योगसचिवः रजत कुमार, पर्यटनविभागस्य सचिवः डॉ. एस्. भारतीदासनः तथा अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।