हरियाणा-भाजपायाः नूतना अध्यक्षा डॉ.अर्चना-गुप्ता नियुक्ता, त्रिचत्वारिंशद्वर्षाणाम् अनन्तरं महिलायै नेतृत्वस्य दायित्वं प्राप्तम्
चण्डीगढम्, २८ मे-मासः (हि.स.)। भारतीय-जनता-पक्षेण हरियाणा-प्रदेशस्य नूतना प्रदेशाध्यक्षा रूपेण डॉ.अर्चना-गुप्ता नियुक्ता। सा पक्षस्य पूर्व-महामन्त्री अपि आसीत्। भाजपा-राष्ट्रीय-महामन्त्री अरुण-सिंहेन गुरुवासरे डॉ.अर्चना-गुप्तायाः नियुक्तेः आदेशाः
अर्चना गुप्ता


चण्डीगढम्, २८ मे-मासः (हि.स.)। भारतीय-जनता-पक्षेण हरियाणा-प्रदेशस्य नूतना प्रदेशाध्यक्षा रूपेण डॉ.अर्चना-गुप्ता नियुक्ता। सा पक्षस्य पूर्व-महामन्त्री अपि आसीत्।

भाजपा-राष्ट्रीय-महामन्त्री अरुण-सिंहेन गुरुवासरे डॉ.अर्चना-गुप्तायाः नियुक्तेः आदेशाः प्रकाशिताः। अस्याः पूर्वं मोहन-लाल-बडौली प्रदेशाध्यक्षः आसीत्। डॉ.अर्चना-गुप्ता त्रिचत्वारिंशद्वर्षाणाम् अनन्तरं हरियाणा-भाजपायाः अध्यक्षा भवितुं द्वितीया महिला जाता। अस्याः पूर्वं डॉ.कमला-वर्मा १९८० तः १९८३ पर्यन्तं प्रदेशाध्यक्षा आसीत्।

मोहन-लाल-बडौली इत्यस्य प्रदेशाध्यक्ष-पदात् निष्कासनस्य विषये गतैकवर्षात् वार्ता: प्रचलन्ति स्म। अर्चना-गुप्ता अद्यावधि मोहन-लाल-बडौली-इत्यस्य दलस्य प्रदेश-महामन्त्रिरूपेण कार्यं कुर्वती आसीत्। डॉ.अर्चना-गुप्तायै प्रदत्तं एतत् दायित्वं भाजपया महिला-नेतृत्वे सङ्घटनात्मक-अनुभवे च विश्वासरूपेण दृष्टा।

डॉ.अर्चना-गुप्ता मूलतः पानीपत-नगरस्य निवासिनी अस्ति तथा व्यवसायेन रेडियोलॉजिस्ट् अस्ति। ९ जुलाईमासे २०२४ तमे वर्षे यदा राय-क्षेत्रस्य पूर्व-विधायकः मोहन-लाल-बडौली प्रदेशाध्यक्ष-पदे नियुक्तः, तदा तस्य दलस्य त्रिषु महामन्त्रिषु—कृष्ण-कुमार-बेदी, सुरेन्द्र-पुनिया इत्येताभ्यां सह डॉ.अर्चना-गुप्तायै अपि एतत् दायित्वं प्रदत्तम्। तदा प्रभृति: सा सङ्घटनस्य सुदृढीकरणाय निरन्तरं परिश्रमं कृतवती।

भाजपा-उच्च-नेतृत्वेन अर्चना-गुप्तायै सङ्घटनं प्रति समर्पणस्य पुरस्काररूपेण एतत् दायित्वं प्रदत्तम्। डॉ. अर्चना-गुप्तायाः प्रदेशाध्यक्ष-पदे नियुक्तिः अनेकान् प्रमुख-पात्र-नेतॄन् पराजित्य कृता। महिलासु भाजपा-केन्द्रीय-निर्वाचन-समितेः सदस्या डॉ.सुधा-यादवः, सिरसा-क्षेत्रस्य पूर्व-सांसद् सुनीता-दुग्गलः तथा पूर्व-राज्यसभा-सदस्या किरण-चौधरी इत्येषां नामानि चर्चायाम् आसन्। पुरुषेषु पलवल-क्षेत्रस्य पूर्व-विधायकः दीपक-मङ्गला, पूर्व-मन्त्री कैप्टन-अभिमन्यु:, पूर्व-मन्त्री मनीष-ग्रोवरः, पूर्व-मन्त्री डॉ.कमल-गुप्तः, सांसदः संजय-भाटिया तथा मन्त्रिमण्डल-मन्त्री कृष्ण-कुमार-बेदी इत्येतान् पृष्ठतः स्थापयित्वा अर्चना-गुप्ता प्रदेशाध्यक्ष-पदे नियुक्तुं सफलाभवत्।

डॉ.अर्चना-गुप्तायाः नियुक्तेः अनन्तरं अधुना प्रदेश-समित्यां पुनः परिवर्तनं भविष्यति। भाजपादलेन अर्चना-गुप्तां प्रदेशाध्यक्षां नियुक्त्य सङ्घटने महिलानां महत्त्वं दातुं स्वस्य नीतिः प्रदर्शिता। भाजपा-सङ्घटने प्रदेशाध्यक्षस्य न्यूनतमः कार्यकालः प्रायः त्रिवर्षात्मकः भवति। एतादृशे सति निवर्तमानः प्रदेशाध्यक्षः मोहन-लाल-बडौली केवलं द्विवर्षीय-कार्यकालानन्तरमेव पदात् अपसारितः। तथापि तस्य नेतृत्वे हरियाणायां भाजपादलेन तृतीयवारं शासन-निर्माणे सफलता प्राप्ता।

डॉ.अर्चना-गुप्तायाः राजनैतिक-सामाजिक-यात्रा

जन्म : २० जनवरीमास: १९६८, समालखा (पानीपत)

व्यवसायः : रेडियोलॉजिस्ट्

शिक्षा : एमडी (पीजीआइ रोहतक)

पतिः : डॉ.अनिल-गुप्तः (नेत्र-रोग-विशेषज्ञः)

डॉ.अर्चना-गुप्ता व्यवसायेन रेडियोलॉजिस्ट् अस्ति तथा तया पीजीआई-रोहतक-संस्थातः एमडी-उपाधिः प्राप्ता।

वर्षे २०१० तः २०१६ पर्यन्तं तया विश्व-हिन्दू-परिषदि जनपद-सह-संयोजिका, संयोजिका तथा हरियाणा-उपाध्यक्षेति दायित्वानि निर्वुढानि।

भाजपायां सक्रिय-भूमिकां निर्वहन्ती तया महिला-मोर्चायां सङ्घटनात्मक-कार्यं कृतम् तथा पानीपत-क्षेत्रे पक्षस्य सुदृढीकरणे महत्त्वपूर्णा भूमिका निर्वहिता।

वर्षे २०१९ तमस्य लोकसभा-विधानसभा-निर्वाचनयोः भाजप-प्रत्याशिनां समर्थनार्थं तया सक्रिय-प्रचारः कृतः। विशेषतः महिला-मतदातृषु तस्याः सुदृढ: परिचय: इति मन्यते।

अगस्त-मासे २०२० तमे वर्षे तां भाजपायाः पानीपत-जनपदाध्यक्षारूपेण नियुक्तवती। सा पानीपत-भाजपायाः प्रथमा महिला-जनपदाध्यक्षा जाता।

जनवरी-मासे २०२४ तमे वर्षे हरियाणा-भाजपा-सङ्घटने महत्परिवर्तने तां प्रदेश-महामन्त्रिरूपेण नियुक्तम्। तस्मिन् समये पक्षेण लोकसभा-विधानसभा-निर्वाचनयोः पूर्वं सङ्घटनस्य सुदृढीकरणाय नूतना समिति: निर्मिता।

प्रदेश-महामन्त्रिरूपेण अर्चना-गुप्तया सङ्घटन-विस्तारे, महिला-सशक्तीकरणे तथा बूथ-स्तरे पक्षस्य सुदृढीकरण-अभियाने सक्रिय-भूमिका निर्वुढा।

अधुना पर्यन्तं हरियाणा-भाजपायाः प्रदेशाध्यक्षाः

डॉ. कमला-वर्मा (१९८०-१९८३)

सूरज-भानः (१९८४-१९८५)

डॉ. मङ्गल-सेनः (१९८६-१९९०)

प्रो. रामबिलास-शर्मा (१९९०-१९९३ तथा २०१३-२०१४)

रमेश-जोशी (१९९४-१९९८)

ओपी-ग्रोवरः (१९९८-२०००)

रतनलाल-कटारिया (२०००-२००३)

प्रो. गणेशी-लालः (२००३-२००६)

आत्मप्रकाश-मनचन्दा (२००६-२००९)

कृष्ण-पाल-गुर्जरः (२००९-२०१३)

सुभाष-बराला (२०१४-२०२०)

ओमप्रकाश-धनखडः (२०२०-२०२४)

मोहन-लाल-बडौली (२०२४-२०२६)

Hindusthan Samachar / Divya Ranjan