Enter your Email Address to subscribe to our newsletters

नवदिल्ली/बीजिंगम्, 28 मईमासः (हि.स.)।
भारतचीनदेशयोः मध्ये सीमाविषयेषु परामर्शसमन्वयार्थं कार्यतन्त्रस्य (डब्ल्यूएमसीसी) पञ्चत्रिंशत्तमा उपवेशनं बुधवासरे बीजिङ्नगरे सौहार्दपूर्णवातावरणे सम्पन्ना। अस्मिन् उभयपक्षौ चीनदेशे आयोज्यमानायाः विशेषप्रतिनिधीनां (एसआर) आगामिगोष्ठ्याः सुदृढाधारनिर्माणार्थं सहकार्यं कर्तुं संकल्पितवन्तौ।
विदेशमन्त्रालयस्य अद्य प्रकाशितस्य वक्तव्यस्य अनुसारं बैठके उभयदेशौ सीमावर्तीक्षेत्रेषु शान्तिरक्षणे जातां प्रगतिं प्रति सन्तोषं व्यक्तवन्तौ, येन द्विपक्षीयसम्बन्धानां क्रमशः सामान्यीकरणस्य दिशि अग्रे गन्तुं मार्गः प्रशस्तः अभवत्।
विदेशमन्त्रालयस्य अनुसारम् अस्यां महत्त्वपूर्णायां बैठके भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं विदेशमन्त्रालयस्य संयुक्तसचिवेन (पूर्वी एशिया) सुजीत घोषेन कृतम्। चीनदेशस्य प्रतिनिधिमण्डलस्य नेतृत्वं तत्रत्यविदेशमन्त्रालयस्य सीमासामुद्रिकविषयविभागस्य महानिदेशिका सुश्री होउ यांकी इत्यनया कृतम्।
विदेशमन्त्रालयेन उक्तं यत् बैठकाकाले उभयपक्षयोः मध्ये अत्यन्तं रचनात्मकं दूरदर्शि च विमर्शः अभवत्। उभयदेशयोः राजनयिकैः भारतचीनसीमाक्षेत्राणां वर्तमानस्थितेः व्यापकसमीक्षा कृता। उभयपक्षौ अस्मिन् विषये सहमतौ यत् सीमाक्षेत्रेषु स्थिरताशान्तिरक्षणप्रयत्नानां सकारात्मकफलानि प्राप्तानि सन्ति।
उपवेशने त्रिषु प्रमुखविषयेषु विचारविमर्शः कृतः। मुख्यतया सीमापरिसीमनं सीमाप्रबन्धनं तन्त्रनिर्माणं सीमापारसहयोगश्च सम्बद्धेषु विभिन्नेषु महत्त्वपूर्णविषयेषु विस्तृतचर्चा अभवत्। भारतीयपक्षेण सीमापारप्रवहमाननदीनां विषये आगामिविशेषज्ञस्तरीयतन्त्रबैठकायाः शीघ्रातिशीघ्रं आयोजनस्य आवश्यकता विशेषरूपेण प्रतिपादिता।
अस्य अतिरिक्तं उभयपक्षौ चतुर्विंशतितमविशेषप्रतिनिधिस्तरीयवार्तायाः निर्णयानुसारं राजनयिकसैन्यस्तरयोः नियमितसंवादसंपर्कयोः निरन्तरतां स्थापयितुं सहमतौ अभवताम्।
विदेशमन्त्रालयस्य अनुसारं उभयपक्षौ चीनदेशे आयोज्यमानायाः विशेषप्रतिनिधीनां (एसआर) आगामिबैठकायाः सुदृढं स्थिरं च आधारं निर्मातुं सहकार्यस्य प्रतिबद्धतां पुनरपि अभिव्यक्तवन्तौ।
अस्याः बीजिङ्यात्रायाः काले भारतीयप्रतिनिधिमण्डलस्य नेता सुजीत घोषः चीनविदेशमन्त्रालयस्य एशियाईविषयविभागस्य महानिदेशकं लियू जिनसोंग इत्येनं अपि मिलितवान्। तदतिरिक्तं तेन चीनदेशस्य सहायकविदेशमन्त्रिणा होंग लेई इत्यनेन सह शिष्टाचारमेलनं कृतं, यस्यां पारस्परिकहितविषयेषु विचारविनिमयः अभवत्।
---------------