Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 28 मईमासः (हि.स.)। संस्कृत-भारती-राजस्थान-क्षेत्रेण भवानी-आदर्श-विद्या-मन्दिर-पाल-मार्गे सञ्चालिते प्रशिक्षण-वर्गे शिक्षा-पञ्चायतीराज-विभागस्य मन्त्री मदन दिलावर सहभागितां कृतवान्।
तेन उक्तं यत् भारतीय-ज्ञान-परम्परायाः अवगमनार्थं संस्कृत-भाषायाः अध्ययनम् आवश्यकम् अस्ति। अस्याः वेदवाण्याः सामान्य-जीवने प्रयोगः कर्तव्यः। संस्कृत-भाषायाः अधिगमः तथा अध्यापनम् अद्यतन-समये अत्यावश्यकम् अस्ति। तेन वर्गे प्रचलितानां विविध-आयामानाम् अवलोकनं कृतम् तथा संस्कृत-भाषायाः भारतीय-संस्कृतेः च संरक्षण-संवर्धनयोः कृते संस्कृत-भारत्याः प्रयासानां प्रशंसा कृता।
अस्मिन् अवसरे मन्त्रिणा वर्गे आयोजितायाः प्रदर्शिन्याः अवलोकनं कृत्वा विभिन्न-विषयाणां विषये जानकारी प्राप्ता तथा तस्याः प्रशंसा अपि कृता।
कार्यक्रमे जिलाधिकारी आलोक रंजन, जिला-परिषदः सीईओ आशीष कुमार मिश्रा, विशेषाधिकारी अभय सिंह राठौड़, क्षेत्र-सङ्गठन-मन्त्री कमल-कुमारः, क्षेत्र-मन्त्री तगसिंह-राजपुरोहितः, प्रशिक्षण-प्रमुखः राजेन्द्र-शर्मा, वर्गाधिकारी रामनिवास-शर्मा, वर्ग-संयोजकः लक्ष्मणसिंह-गहलोतः, पाबूराम-विश्नोई, महेश-दाधीचः, मधुसूदन-शर्मा, हरीश-लोया, श्रीकिशन-गहलोतः, धर्मवीर-सोनी, अशोक-अग्रवालः, समाज-सेवी शिवकुमार-सोनी, ताराचन्द-रेपस्वालः, गणपत-लाल-शर्मा, दिनेश-गौड़ः, मीना-योगी, नरेन्द्र-कुमार-टाकः, राधाकृष्णन्-जाटः, पुष्पेन्द्र-शर्मा, ओमप्रकाश-सियोलः इत्यादयः अनेके गणमान्यजनाः उपस्थिताः आसन्। कार्यक्रमस्य अन्ते उत्तर-पश्चिम-क्षेत्राध्यक्षः तुलसीदास-शर्मा सर्वेषाम् अतिथीनां तथा उपस्थित-जनानां प्रति आभारं व्यक्तवान्।
Hindusthan Samachar / Dheeraj Maithani