Enter your Email Address to subscribe to our newsletters





रायसेन-नगरम्, २८ मे-मासः (हि.स.)। मध्यप्रदेशस्य रायसेन-जनपद-मुख्यालये स्थितात् विश्व-धरोहर-बौद्ध-तीर्थात् साञ्चीतः गुरुवासरे भगवत: गौतम-बुद्धस्य परम-शिष्ययोः अरिहन्त-सारिपुत्रस्य महामौद्गल्यायनस्य च पवित्र-अस्थि-कलशौ विशेष-विमानेन देहलीं प्रेषितौ। ततः पूर्वं साञ्च्यां अस्थि-कलशाभ्यां सशस्त्र-सुरक्षा-बलैः ‘गार्ड-ऑफ्-ऑनरः’ प्रदत्तः।
साञ्ची-स्थितस्य चैत्यगिरि-विहार-मन्दिरस्य मुख्य-तहखानात: प्रातःकाले त्रयोदश-सदस्यीय-प्रतिनिधि-मण्डलस्य उपस्थितौ अस्थि-कलशौ बहिः निष्कासितौ। अनन्तरं बौद्ध-भिक्षुभिः प्रायः सार्धैक-होरापर्यन्तं मन्त्र-उच्चारणेन सह विशेष-पूजार्चना कृता। सशस्त्र-सुरक्षा-बलानां ‘गार्ड-ऑफ-ऑनरः’ प्रदानेन अनन्तरं कलशौ बुलेट-प्रूफ तथा शॉक-प्रूफ विशेष-पेटिकायां सील-कृत्वा भोपालतः प्रेषितौ।
अस्थि-कलशौ सुरक्षायाः मध्ये मार्गेण भोपाल-विमानपत्तनं नीतौ, यतः विशेष-विमानेन तौ देहलीं प्रेषितौ। अस्याः सम्पूर्ण-प्रक्रियायाः समये मध्यप्रदेशस्य पंचायत-ग्रामीण-विकास-मन्त्री प्रह्लाद-सिंह-पटेलः, वानगल-उपतिस-नायक-थेरो, रायसेन-जनपदाधिकारी अरुण-कुमार-विश्वकर्मा, पुलिस-अधीक्षकः आशुतोष-गुप्तः तथा भारत-सर्वकारस्य संस्कृति-विभागस्य निदेशकः यश-सक्सेना सह अनेके वरिष्ठ-प्रशासनिक-अधिकारिण: उपस्थिताः आसन्।
अस्मिन् अवसरे मन्त्री प्रह्लाद-सिंह-पटेलः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र-मोदिनः कार्यकाले एषा नूतना परम्परा आरब्धा। पूर्वं एतानि अस्थीनि विदेशेषु आसन्, तानि भारतम् आनीय अधुना सम्मानपूर्वकं दर्शनार्थं विभिन्न-देशेषु प्रेष्यन्ते। महाबोधि-सोसाइटी-श्रीलङ्कायाः प्रमुखः वानगल-उपतिस-नायक-थेरो उक्तवान् यत् भारतस्य एषा अमूल्या धरोहरः मङ्गोलिया-देशं प्राप्य उभयोः देशयोः आध्यात्मिक-सांस्कृतिक-सम्बन्धान् सुदृढान् करिष्यति। अनेन साञ्च्यां विदेशीय-पर्यटकानां संख्यायाम् अपि वृद्धिः भविष्यति।
वस्तुतः भगवत: गौतम-बुद्धस्य उभयोः परम-शिष्ययोः अरिहन्त-सारिपुत्रस्य महामौद्गल्यायनस्य च पवित्र-अवशेषौ मङ्गोलिया-देशं प्रेष्येते। भोपाल-विमानपत्तने गरिमामय-विदाई-समारोहानन्तरं अवशेषौ देहली-स्थितं राष्ट्रीय-सङ्ग्रहालयं प्रेषितौ। अत्र तकनीकी-प्रक्रियायाः पूर्णतायाः अनन्तरं २९ मे-मासे तौ मङ्गोलियाम् नेष्येते। एषा द्वितीया वार्ता अस्ति यदा एतौ अवशेषौ दर्शनार्थं विदेशं प्रेष्येते। अस्याः पूर्वं द्विवर्षपूर्वं तौ थाईलैण्ड-देशं प्रेषितौ आस्ताम्। मङ्गोलियाम् प्रेषणात् पूर्वं तौ देहल्यां दर्शनार्थं स्थापितौ भविष्यतः।
रायसेन-उपजनपदाधिकारी मनीष-शर्मा उक्तवान् यत् केन्द्र-सर्वकारस्य भारतीय-पुरातत्त्व-सर्वेक्षणस्य (एएसआई) विशेष-दलेन साञ्च्यां कलशयोः भौतिक-सत्यापनं वैज्ञानिक-परीक्षणं च कृतम्। अस्याः प्रक्रियायाः वीडियोग्राफी इति कृता तथा पञ्चनामा अपि निर्मिता। एतेभ्यः पवित्र-अवशेषेभ्यः सदा राजकीयातिथेः संज्ञा प्रदीयते तथा सम्पूर्ण-यात्रायां ते चतुर्विंशतिहोरापर्यन्तं सशस्त्र-सुरक्षा-वलये स्थिताः भवन्ति। कलशौ स्मार्ट-क्लाइमेट-कण्ट्रोल-केस इत्यत्र स्थापितौ भवतः। सुरक्षा-कारणात् यात्रायाः मार्गः पूर्णतया गोपनीयः भवति तथा एड्वान्स-पायलट-वाहनम् अपि सह गच्छति।
मध्यप्रदेशस्य संस्कृति-पर्यटन-विभागस्य अपर-मुख्य-सचिवः शिव-शेखर-शुक्लः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र-मोदिनः विशेष-प्रयत्नेन साञ्ची-स्तूपात् भगवत: बुद्धस्य परम-शिष्ययोः अरिहन्त-सारिपुत्रस्य महामौद्गल्यायनस्य च पवित्र-अवशेषौ सार्वजनिक-दर्शनार्थं मङ्गोलियाम् प्रेष्येते। एष: प्रयत्न: संस्कृति-मन्त्रालयेन (भारत-सरकारः), पर्यटन-संस्कृति-विभागेन, महाबोधि-सोसाइटी-ऑफ-इण्डिया तथा इण्टरनेशनल्-बौद्ध-कन्फेडरेशन (आईबीसी) इत्येतैः संयुक्त-समन्वयेन आयोज्यते।
शुक्लः उक्तवान् यत् नव-देहली-स्थिते राष्ट्रीय-सङ्ग्रहालये २९ मे-मासे पवित्र-अवशेषौ सार्वजनिक-दर्शनार्थं स्थापितौ भविष्यतः। अत्र महाबोधि-सोसाइटी-ऑफ-इण्डिया इत्यस्य पूज्य-भिक्षवः पारम्परिक-विधिना पूजार्चनां करिष्यन्ति।
मङ्गोलिया-राजधानी उलानबातर-नगरे ३१ मे-मासे सार्वजनिक-दर्शनम्
अपर-मुख्य-सचिवः शुक्लः उक्तवान् यत् मङ्गोलिया-राजधानी उलानबातर-नगरे ३१ मे २०२६ तः आरभ्यमाणा एषा प्रदर्शिनी अनुमानतः दश-लक्षाधिक-श्रद्धालून्, भिक्षून् पर्यटकांश्च आकर्षयिष्यति। अनेन भारतस्य बौद्ध-तीर्थ-सर्किट्, विशेषतः साञ्ची-सदृश-स्थलेषु वैश्विक-रुचिः वर्धिष्यते तथा मङ्गोलियायाः स्वकीय-आध्यात्मिक-मूलैः सह सम्बन्धः अपि सुदृढः भविष्यति। भारतस्य बौद्ध-धरोहरं मङ्गोलिया-सदृशे बौद्ध-परम्परया सम्बद्धे देशे प्रदर्शयित्वा भारतस्य “बौद्ध-धर्मस्य जन्मभूमिः” इति भूमिका अधिकं सशक्ता भवति तथा अन्ताराष्ट्रिय-तीर्थ-पर्यटनस्य प्रोत्साहनं भवति।
शुक्लः उक्तवान् यत् मध्यप्रदेशस्य कृते वैश्विक-मञ्चे स्वस्य बौद्ध-सर्किट् स्थापयितुं महत्त्वपूर्णः अवसरः अस्ति, येन विदेशीय-पर्यटकानां संख्या, प्रवास-अवधिः सांस्कृतिक-सहभागिता च वर्धिष्यते। एष: प्रयत्न: उभयोः देशयोः मठानां, सांस्कृतिक-संस्थानानां सङ्ग्रहालयानां च मध्ये निरन्तर-सहयोगस्य नूतनान् मार्गान् उद्घाटयिष्यति, येन साझा-धरोहरस्य आधारेण दीर्घकालिकाः सांस्कृतिक-सम्बन्धाः विकसिताः भविष्यन्ति।
साञ्ची-स्तूपः - यूनेस्को-विश्व-धरोहरः श्रद्धायाः वैश्विक-केन्द्रं च
यूनेस्को-विश्व-धरोहर-स्थलरूपेण प्रसिद्धः ‘साञ्ची-स्तूपः’ विश्वस्य प्राचीनतमेषु महत्त्वपूर्णेषु च बौद्ध-स्थलेषु अन्यतमः अस्ति। अत्र संरक्षिताः पवित्र-अवशेषाः भगवान् बुद्धस्य प्रतीकरूपेण अत्यन्त-श्रद्धया पूज्यभावेन च दृष्टाः भवन्ति। भगवान् बुद्धस्य द्वौ प्रमुख-शिष्यौ सारिपुत्रः महामौद्गल्यायनश्च आस्ताम्, यौ बुद्धस्य “अग्र-युग्मम्” इति मन्येते स्म। सारिपुत्रः प्रज्ञायां (बुद्धिमत्तायाम्) महामौद्गल्यायनः अलौकिक-शक्तिषु च सर्वोच्च-स्थानं प्राप्तवन्तौ। उभौ अपि शिष्यौ बौद्ध-सङ्घस्य अत्यन्त-महत्त्वपूर्ण-स्तम्भौ आस्ताम् तथा धम्मस्य प्रचार-प्रसारे महत्त्वपूर्णां भूमिकां निर्वुढवन्तौ। तयोः शिक्षाः अद्यापि बौद्ध-दर्शन-साधना-परम्परायां महान् सम्मानं प्राप्नुवन्ति। विशेषतया साञ्ची-स्तूपस्य त्रिंशत्-किलोमीटर-परिधौ अनेकानि महत्त्वपूर्णानि बौद्ध-स्थलानि सन्ति, यत्र भगवान् बुद्धस्य शिक्षाणां प्रतिध्वनिः अद्यापि संरक्षिता वर्तते।
Hindusthan Samachar / Divya Ranjan