Enter your Email Address to subscribe to our newsletters


भोपालनगरम्, २८ मे-मासः (हि.स.)। मध्यप्रदेशस्य रायसेन-जनपदे स्थिते विश्वधरोहररूपेण प्रसिद्धे साञ्ची-स्तूपे स्थापिताः भगवतः बुद्धस्य परमशिष्ययोः अरिहन्तस्य, सारिपुत्रस्य महामौद्गल्यायनस्य च पवित्रावशेषाः अद्य गुरुवासरे भोपालतः नवदेहलीं प्रति प्रेषिताः भविष्यन्ति। नवदेहल्यां एतेषां पवित्रावशेषाणां सार्वजनिकदर्शनं शुक्रवासरे, २९ मे-मासे भविष्यति।
मध्यप्रदेशस्य संस्कृतिपर्यटनविभागस्य अपरमुख्यसचिवः शिवशेखरशुक्लः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य विशेषप्रयत्नेन साञ्ची-स्तूपात् भगवतः बुद्धस्य परमशिष्ययोः अरिहन्तस्य, सारिपुत्रस्य महामौद्गल्यायनस्य च पवित्रावशेषाः सार्वजनिकदर्शनार्थं मङ्गोलियादेशं प्रेष्यन्ते। भोपालस्य राजाभोजविमानतले अद्य (२८ मे-मासः) एते पवित्रावशेषाः राजकीयसम्मानेन विशेषविमानेन नवदेहलीं प्रति प्रेषिताः भविष्यन्ति।
तेन उक्तं यत् एषः प्रयत्नः भारतसर्वकारस्य संस्कृतिमन्त्रालयेन, पर्यटन-संस्कृति-विभागेन, महाबोधि-सोसाइटी-ऑफ-इण्डिया तथा इन्टरनेशनल-बौद्ध-कॉन्फेडरेशन इत्येतयोः संयुक्तसमन्वयेन आयोज्यते। अस्याः ऐतिहासिकयात्रायाः प्रमुखोद्देश्यं भारत-मङ्गोलिययोः द्वि-पक्षीयसम्बन्धानां सुदृढीकरणम्, सहभागाध्यात्मिकपरम्परायाः संरक्षणम्, बौद्धतीर्थपर्यटनस्य वैश्विकस्तरे संवर्धनं च अस्ति। एषः प्रयत्नः केवलम् आध्यात्मिकदृष्ट्या एव न, अपितु पर्यटन-सांस्कृतिकविकासयोः दृष्ट्यापि अत्यन्तमहत्त्वपूर्णा अस्ति।
नवदेहल्यां पवित्रावशेषाणां सार्वजनिक-दर्शनम्
एसीएस शुक्लः अवदत् यत् नवदेहल्यां स्थिते राष्ट्रीयसंग्रहालये २९ मे-मासे एते पवित्रावशेषाः सार्वजनिकदर्शनार्थं स्थापिताः भविष्यन्ति। अस्मिन् अवसरे महाबोधि-सोसाइटी-ऑफ-इण्डिया इत्यस्य पूज्यभिक्षवः पारम्परिकविधिना पूजार्चनां करिष्यन्ति।
भारतीयवायुसेनायाः विशेषविमानेन ३० मे-मासे मङ्गोलियादेशं प्रति प्रेषणम्
तेन उक्तं यत् ३० मे-मासे भारतीय-वायुसेनायाः विशेषविमानेन एते पवित्रावशेषाः मङ्गोलियादेशं प्रति प्रेषिताः भविष्यन्ति। अस्याः पवित्रयात्रायाः समये धार्मिकपरम्पराणां पवित्रता सुरक्षा च सुनिश्चितीकरणार्थं मध्यप्रदेशपर्यटन-विभागस्य महाबोधि-सोसाइटी-ऑफ-इण्डिया च प्रतिनिधि-मण्डलं अवशेषैः सह भविष्यति।
मङ्गोलियादेशस्य राजधान्याम् उलानबातर-नगरे ३१ मे-मासे सार्वजनिकदर्शनम्
एसीएस शिवशेखरशुक्लः अवदत् यत् मङ्गोलियादेशस्य राजधान्याम् उलानबातर-नगरे ३१ मे-मासात् आरभ्यमाणा एषा प्रदर्शिनी अनुमानतः दशलक्षाधिकान् श्रद्धालून्, भिक्षून्, पर्यटकांश्च आकर्षयिष्यति। अनेन भारतस्य बौद्धतीर्थपरिपथेषु, विशेषतः साञ्ची-स्थलेषु, वैश्विकरुचिः वर्धिष्यते तथा मङ्गोलियादेशस्य आध्यात्मिकमूलैः सह सम्बन्धः अपि सुदृढः भविष्यति। भारतस्य बौद्धपरम्परां मङ्गोलियादेशे प्रस्तूय भारतस्य “बौद्धधर्मस्य जन्मभूमिः” इति भूमिका अधिकं सशक्ता भवति तथा अन्ताराष्ट्रियतीर्थपर्यटनस्य संवर्धनं करोति।
मध्यप्रदेशस्य कृते महत्त्वपूर्णः अवसरः
शुक्लः उक्तवान् यत् मध्यप्रदेशस्य कृते एषः वैश्विकमञ्चे स्वस्य बौद्धपरिपथस्य स्थापनायाः महत्त्वपूर्णः अवसरः अस्ति। अनेन विदेशीयपर्यटकानां संख्या, निवासकालः, सांस्कृतिकसहभागिता च वर्धिष्यते। एषः प्रयत्नः उभयदेशयोः मठानां, सांस्कृतिकसंस्थानां, संग्रहालयानां च मध्ये निरन्तरसहकार्यस्य नूतनान् मार्गान् उद्घाटयिष्यति, येन सहभागपरम्परायाः आधारेण दीर्घकालिकाः सांस्कृतिक-सम्बन्धाः विकसिताः भविष्यन्ति।
साञ्ची-स्तूपः : यूनेस्को-विश्वधरोहर-स्थलम् आस्थायाः वैश्विककेन्द्रं च
ध्यातव्यं यत् यूनेस्को-विश्वधरोहरस्थलरूपेण प्रसिद्धः साञ्ची-स्तूपः विश्वस्य प्राचीनतमेषु महत्त्वपूर्णेषु च बौद्धस्थलेषु अन्यतमः अस्ति। अत्र संरक्षिताः पवित्रावशेषाः भगवतः बुद्धस्य प्रतीकरूपेण अत्यन्तश्रद्धया पूज्यभावेन च दृष्टाः भवन्ति। भगवतः बुद्धस्य द्वौ प्रमुखशिष्यौ सारिपुत्रः महामौद्गल्यायनः च आस्ताम्, यौ बुद्धस्य “अग्रयुग्मम्” इति मन्येते स्म। सारिपुत्रः प्रज्ञायां सर्वोच्चस्थानं प्राप्तवान्, महामौद्गल्यायनः च अलौकिकशक्तिषु प्रसिद्धः आसीत्। उभौ अपि बौद्धसंघस्य महत्त्वपूर्णौ स्तम्भौ आस्ताम् तथा धम्मस्य प्रचारे महतीं भूमिकां निर्वुढवन्तौ। तयोः शिक्षाः अद्यापि बौद्धदर्शनसाधनापरम्परायां महता आदरेण सह स्मर्यन्ते। विशेषतया साञ्ची-क्षेत्रस्य त्रिंशत्किलोमीटर-परिधौ अनेकानि महत्त्वपूर्णानि बौद्धस्थलानि सन्ति, यत्र भगवतः बुद्धस्य शिक्षाणां प्रतिध्वनिः अद्यापि संरक्षिता अस्ति।
Hindusthan Samachar / Divya Ranjan