Enter your Email Address to subscribe to our newsletters

ग्वालियरनगरम्, २८ मे-मासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर-जनपदे अद्य गुरुवासरे षट् आवश्यकतायुक्ताः महिलाः “शक्तिदीदी” इति रूपेण नियुक्ताः भविष्यन्ति। समाहर्त्री रुचिकाचौहान-इत्यनया सह जनपदप्रशासनस्य वरिष्ठाधिकारिणः विविधेषु पेट्रोलपम्प-इत्यत्र गत्वा एताभ्यः महिलाभ्यः “शक्तिदीदी” इति रूपेण इन्धनवितरणकार्यकर्त्रीणां दायित्वं प्रदास्यन्ति।
जनसम्पर्काधिकारी हितेन्द्रसिंहभदौरिया सूचनां दत्त्वा अवदत् यत् जनपदे महिलासशक्तिकरणस्य दिशि मुख्यमन्त्रिणः डॉ.मोहनयादवस्य इच्छानुसारं समाहर्त्र्याः रुचिकाचौहान-इत्यस्याः प्रयत्नेन आरब्धेन “शक्तिदीदी” नवाचारकार्यक्रमेण आवश्यकतायुक्ताः महिलाः आत्मनिर्भराः क्रियन्ते। अस्य नवाचारस्य अन्तर्गतं आवश्यकतायुक्ताभ्यः महिलाभ्यः पेट्रोलपम्प-इत्यत्र इन्धन-वितरणकार्यकर्त्रीणां सेवा प्रदीयते। अधुना “शक्तिदीदी” योजनायाः अन्तर्गतं जनपदे पूर्वमेव ११२ महिलाः एतां भूमिकां सफलतया निर्वहन्ति।
तेन उक्तं यत् समाहर्त्री रुचिकाचौहान अद्य प्रातः प्रायः ११:४५ वादने रेसकोर्स-मार्गस्थिते सैनिक-फिलिङ्ग-स्टेशन-पेट्रोलपम्प-इत्यत्र गायत्रीं “शक्तिदीदी” इति रूपेण नियोक्ष्यति। ततः अनन्तरं रेसकोर्स-मार्गे एव स्थिते केसर-फिलिङ्ग-स्टेशन-इत्यत्र गत्वा प्रवीणायै इन्धनवितरण-कार्यकर्त्रीरूपेण दायित्वं प्रदास्यति। एवं बड़ाग्रामस्थिते कामतानाथ-फिलिङ्गस्टेशन-इत्यत्र कल्पनायै, कम्पू-स्थिते सुविधा-फ्यूल्स-केन्द्रे सोनम-सन्ध्याभ्यां तथा गोले-का-मन्दिर-स्थिते इन्द्रप्रस्थ-फिलिङ्ग-स्टेशन-इत्यत्र अनुराधायै “शक्तिदीदी” इति दायित्वं समर्प्यते।
Hindusthan Samachar / Divya Ranjan