ग्वालियरे 06 अपेक्षितमहिलाः अभवन् “शक्ति दीदी”इत्येताः, पेट्रोल पंपस्थलेषु अमिलत् फ्यूलप्रदानस्य दायित्वम्
- जिल्लाधिकारिणा विभिन्नेषु पेट्रोलपम्पेषु गत्वा महिलाः शक्तिभगिनीरूपेण नियुक्ताः - अधुना पर्यन्तं ११८ आवश्यकतायुक्ताः महिलाः शक्तिभगिनीरूपेण आत्मनिर्भराः अभवन् ग्वालियर, २८ मई (हि.स.)। मध्यप्रदेशस्य ग्वालियरजिले महिला-सशक्तीकरणस्य नूतना कथा लिख्
ग्वालियर में जरूरतमंद महिलाएं बनी शक्ति दीदी


- जिल्लाधिकारिणा विभिन्नेषु पेट्रोलपम्पेषु गत्वा महिलाः शक्तिभगिनीरूपेण नियुक्ताः

- अधुना पर्यन्तं ११८ आवश्यकतायुक्ताः महिलाः शक्तिभगिनीरूपेण आत्मनिर्भराः अभवन्

ग्वालियर, २८ मई (हि.स.)। मध्यप्रदेशस्य ग्वालियरजिले महिला-सशक्तीकरणस्य नूतना कथा लिख्यते। मुख्यमन्त्रिणः डॉ. मोहनयादवस्य अभिप्रायानुसारं प्रवर्तितस्य “शक्तिदिदी” नवाचारस्य अन्तर्गतं आवश्यकतायुक्ताः महिलाः पेट्रोलपम्पेषु इन्धनवितरणकार्यकर्त्रीरूपेण दायित्वं स्वीकृत्य आत्मनिर्भराः भवन्ति। गुरुवासरे षट् आवश्यकतायुक्ताः महिलाः “शक्तिभगिन्यः” अभवन्। जिल्ले अधुना पर्यन्तं ११८ आवश्यकतायुक्ताः महिलाः शक्तिदिदी-नवाचारस्य माध्यमेन आत्मनिर्भराः जाताः।

जिलाकलेक्टरः रुचिकाचौहान गुरुवासरे रेसकोर्समार्गस्थिते सैनिकफिलिंगस्टेशन पेट्रोलपम्पे गायत्रीं तथा केसरफिलिंगस्टेशने प्रवीणां शक्तिदिदीरूपेण इन्धनवितरणकार्यकर्त्रीदायित्वं समर्पितवती। तया पुष्पमालाः धारयित्वा शक्तिदिदीनां स्वागतं कृतम्। सहैव शक्तिदिदीजैकेट् अपि धारिता।

जिल्लाधिकारिणा चौहानेन शक्तिदिदीनाम् उत्साहवर्धनं कुर्वत्या उक्तं यत् यूयं सर्वाः आत्मविश्वासेन सह स्वदायित्वस्य निर्वहनं कुरुत। जिलाप्रशासनं तथा पुलिसविभागः यूष्माकं सहाय्यार्थं सर्वदा तत्परः अस्ति। तया पेट्रोलपम्पसञ्चालकाय अपि निर्देशाः प्रदत्ताः यत् शक्तिभगिनीभ्यः काचिदपि समस्या न भवेत्। अस्मिन् अवसरे सहायकसञ्चालकः महिला-बालविकासविभागस्य राहुलपाठकः तथा सहायकजिलापूर्त्यधिकारी सौरभजैनः अपि उपस्थितौ आस्ताम्।

एवमेव जिल्लायाः विभिन्नाधिकाऱिभिः बड़ागांवस्थिते कामतानाथफिलिंगस्थानके कल्पनायै, कम्पूस्थिते सुविधाफ्यूल्स इत्यत्र सोनम तथा सन्ध्यायै, एवं गोलेकामन्दिरस्थिते इन्द्रप्रस्थफिलिंगस्थानके अनुराधायै शक्तिदिदीदायित्वं समर्पितम्।

Hindusthan Samachar / Dheeraj Maithani