नेपालस्य “जेन-जी” विद्रोहः - हिंसायाः अग्निदाहस्य च पूर्वनियोजितं षड्यन्त्रम्
काठमाण्डूनगरम्, २८ मे-मासः (हि.स.)। तत्कालीनप्रधानमन्त्रिणः केपी-शर्मा-ओली-नेतृत्वयुक्तया सर्वकारेण सामाजिकमाध्यमेषु आरोपितस्य प्रतिबन्धस्य निरसनार्थं सुशासनस्य च आग्रहाय ८ तथा ९ सेप्टेम्बरमासे २०२५ तमे वर्षे सम्पन्नस्य “जेन-जी-आन्दोलनस्य” विषये वि
जेन जी प्रदर्शन के दौरान आग में जलता सिंहदरवार


काठमाण्डूनगरम्, २८ मे-मासः (हि.स.)। तत्कालीनप्रधानमन्त्रिणः केपी-शर्मा-ओली-नेतृत्वयुक्तया सर्वकारेण सामाजिकमाध्यमेषु आरोपितस्य प्रतिबन्धस्य निरसनार्थं सुशासनस्य च आग्रहाय ८ तथा ९ सेप्टेम्बरमासे २०२५ तमे वर्षे सम्पन्नस्य “जेन-जी-आन्दोलनस्य” विषये विस्मयकारिणः तथ्यानि प्रकाशम् आगतानि। राष्ट्रियमानवाधिकार-आयोगस्य विस्तृत-अनुसन्धान-प्रतिवेदनानुसारम् एतत् प्रदर्शनं स्वतःस्फूर्तं शान्तिपूर्णं च नासीत्, अपितु एतं हिंसात्मकं विध्वंसात्मकं च कर्तुं गम्भीरा पूर्वयोजना अपि निर्मिता आसीत्।

प्रतिवेदने उक्तं यत् यत्र एकः समूहः आन्दोलनं शान्तिपूर्णं स्थापयितुम् इच्छति स्म, तत्र अपरः समूहः योजनाबद्धरूपेण एनं “हाइजैक” कृत्वा संसद्भवनपर्यन्तम् अग्निदाहस्य योजनां निर्मितवान्। सामाजिकमाध्यमप्रतिबन्धस्य निरसनार्थं माइतीघर-क्षेत्रे समागतानां यूनां समूहस्य मध्ये दुष्टाभिप्राययुक्ताः केचन तत्त्वानि योजनाबद्धरूपेण प्रविश्य हिंसां प्रज्वालयितुं सक्रियाणि आसन्।

आयोगस्य अनुसारम् आन्दोलनं हिंसात्मकं कर्तुं योजना प्रदर्शनात्पूर्वमेव डिजिटलमाध्यमैः आरब्धा आसीत्। केचन व्यक्तयः आन्दोलनं “परिणाममुखी” कर्तुं नाम्ना विभिन्नविद्यालयानां डिजिटल-फलकानि जालपुटानि च हैक्-कृत्वा “नो मोर स्क्रीन्स, वी आर ऑन स्ट्रीट्स” तथा “वी डोण्ट वाण्ट लाइक्स - वी वाण्ट चेञ्ज - ८ सेप्टेम्बरमासः २०२५” इत्यादीनि घोषवाक्यानि प्रदर्शितवन्तः।

एतावता एव न, प्रदर्शनात् एकदिवसपूर्वं “वेक अप नेपाल” नामक-टिकटॉक-लेखात् “टुमॉरोज प्रोटेस्ट कृते मोलोटोव-कॉकटेल सज्जीकुरुत” इति लिखित्वा पेट्रोलबम्बनिर्माणस्य सार्वजनिकम् आह्वानम् अपि कृतम्। आयोगेन उक्तं यत् संसद्भवनं सिंहदरबारं च ज्वलन्तरूपेण दर्शयन्त्यः कृत्रिमबुद्धिमत्तया निर्मितानि चित्राणि चलचित्राणि च पूर्वमेव सामाजिकमाध्यमेषु प्रसारितानि आसन्, येन विध्वंसस्य पूर्वसज्जा सिद्धा भवति।

प्रतिवेदने छात्राणां “मानवकवच”रूपेण उपयोगस्य षड्यन्त्रस्य अपि उल्लेखः कृतः। नेपाल-आरक्षकविभागस्य नाम्ना मिथ्या-फेसबुक-पृष्ठं निर्माय एषः भ्रमः प्रसारितः यत् छात्रवेशधारिषु आरक्षबलं न प्रयुञ्जीत। अनेन ब्याजेन सर्वेभ्यः विद्यालयीयवेशं धृत्वा प्रदर्शनम् आगन्तुम् आग्रहः कृतः।

घटनानन्तरं तेषां सामाजिक-माध्यमलेखानां निष्क्रियीकरणं आयोगेन सुनियोजितयोजनायाः प्रमाणरूपेण स्वीकृतम्। प्रतिवेदने उक्तं यत् एतासां पूर्वसूचनानां संकेतस्यानन्तरमपि सर्वकारः सुरक्षासंस्थाश्च एतान् लेखान् निरोद्धुं मिथ्यावार्तानां खण्डनं कर्तुं वा असफलाः अभवन्, यत् तेषां गम्भीरदुर्बलतां दर्शयति।

आयोगेन स्वप्रतिवेदने लिखितं यत् मिथ्या-फेसबुक-पृष्ठस्य माध्यमेन प्रदर्शनकारिणः भ्रमिताः कृत्वा छात्राणाम् आन्दोलनमध्ये “मानवकवच”निर्माणस्य प्रयासः कृतः। सुरक्षाकर्मिणां वक्तव्याधारेण आयोगेन एतत् तथ्यं स्थापितं मन्यते।

प्रतिवेदनानुसारं “हामी नेपाल”संस्थायाः सुदन-गुरुङ्गः, अङ्कित-मल्लः, खेमराज-साउदः इत्यादयः अन्ये च जनाः जनपदप्रशासनकार्यालयात् ५०० तः ८०० जनानाम् उपस्थितेः अनुमानं दत्त्वा शान्तिपूर्णप्रदर्शनस्य अनुमतिं प्राप्तवन्तः। किन्तु प्रदर्शनारम्भात् पूर्वमेव माइतीघर-मण्डले प्राथमिकोपचारार्थं तम्बू, स्वास्थ्यस्वयंसेवकाः, त्रीणि एम्बुलेन्स-यानानि च व्यवस्थापितानि आसन्, यत् आयोगेन सन्दिग्धं मन्यते।

८ सेप्टेम्बर-दिने प्रातः प्रायः नववादने प्रदर्शनस्थले प्राप्तौ जेन-जी-आन्दोलनस्य अग्रणी मन्यते रक्षा-बम जस्मिन्-ओझा-समूहश्च एतस्य व्यवस्थायाः विषये आपत्तिं प्रकटितवन्तौ। ताभ्यां सुदन-गुरुङ्गं पृष्टं यत् शान्तिपूर्णप्रदर्शनार्थं एतादृशी विशालचिकित्सासज्जा किमर्थं कृता। किन्तु गुरुङ्गः स्पष्टं उत्तरं दातुं न अशक्नोत्।

प्रातः सार्धदशवादने माइतीगृहात् आरब्धं प्रदर्शनं प्रशासननिर्धारितसीमां लङ्घयित्वा बबरमहलमार्गेण नूतन-बानेश्वर-स्थितम् एवरेस्ट्-होटेल-इत्यस्य पुरतः प्राप्तम्, ततः स्थितिः उग्ररूपं प्राप्तवती। प्रायः पञ्चविंशतिसहस्रजनानां सम्मर्धस्य मध्ये सहसा कृष्णवर्णीय-टी-शर्ट-धारिणः शरीरे “टीओबी” इति टैटूयुक्ताः पञ्चदश-विशति बाइकर-समूहः प्रविष्टः। आयोगस्य अनुसारम् एषः एव समूहः जनसमूहं प्रज्वालयितुं उत्तेजयितुं च सक्रियः आसीत्।प्रायः द्वादशवादने सुदन-गुरुङ्गस्य नेतृत्वे प्रदर्शनकारिणः सुरक्षाबैरिकेड्-भित्तिं भित्त्वा निषिद्धप्रदेशे प्रवेष्टुं आरब्धवन्तः। ततः सुरक्षाबलैः सह संघर्षः आरब्धः स्थितिश्च हिंसात्मके परिणता।

आयोगस्य प्रतिवेदने उक्तं यत् सुरक्षाकर्मिभिः सह संघर्षानन्तरमेव आरक्षकैः अश्रुगैस-इत्यस्य जलवर्षायाश्च उपयोगः कृतः। ततः उग्रसम्मर्देन संसद्भवनस्य प्रथमद्वारस्य पुरतः पाषाणप्रहारः कृतः तथा सशस्त्र-आरक्षकविभागस्य जलतोपयानं भग्नं कृतम्। सम्मर्दः एतावती हिंसात्मिका अभवत् यत् एम्बुलेन्स-यानानि, मानवाधिकार-आयोगस्य निरीक्षणदलस्य वाहनम् अपि भग्नं दग्धं च कृतम् तथा कर्मचारिणः अपि ताडिताः।

आयोगेन निष्कर्षरूपेण उक्तं यत् यूनां शान्तिपूर्णविरोधं “टीओबी” समूहम् अधिगृह्य संसद्भवनस्य आक्रमणम् अग्निदाहं च कर्तुम् अपि प्रयत्नं कृतवान्। प्रतिवेदने उक्तं यत् एतादृश्याः स्थितेः निर्माणकाले आयोजकैः अवैधप्रवेश-निवारणस्य कश्चन प्रयासः न कृतः, अतः जनधनहान्याः मुख्यदायित्वम् आयोजकेष्वेव भवति।

सहैव आयोगेन उक्तं यत् “टीओबी” इति लिखित-टी-शर्ट-टैटूयुक्ताः बाइकर्स के आसन्, तेषां आयोजकैः सह कः सम्बन्धः आसीत्, ते कस्य निर्देशेन कार्यं कुर्वन्ति स्म इत्यस्य गहन-अनुसन्धानम् अद्यापि आवश्यकम् अस्ति।

Hindusthan Samachar / Divya Ranjan