पञ्जाब-निर्वाचनात् पूर्वं भाजपायाः महत्त्वपूर्णः निर्णयः, केवल-सिंह-ढिल्लों इत्यस्य प्रदेशाध्यक्षरूपेण नियुक्तिः कृता
चण्डीगढम्, २८ मे-मासः (हि.स.)। पञ्जाब-राज्ये आगामि-वर्षे २०२७ तमे संवत्सरे भविष्यमाणात् विधानसभानिर्वाचनात् पूर्वं भारतीय-जनता-पक्षेण (भाजपा) सङ्गठने महत् परिवर्तनं कृतम्। पक्षेण बरनाला-क्षेत्रस्य पूर्व-विधायकः वरिष्ठ-नेता च केवल-सिंह-ढिल्लों पञ्जा
पंजाब भाजपा अध्यक्ष केवल सिंह ढिल्लाें


चण्डीगढम्, २८ मे-मासः (हि.स.)। पञ्जाब-राज्ये आगामि-वर्षे २०२७ तमे संवत्सरे भविष्यमाणात् विधानसभानिर्वाचनात् पूर्वं भारतीय-जनता-पक्षेण (भाजपा) सङ्गठने महत् परिवर्तनं कृतम्। पक्षेण बरनाला-क्षेत्रस्य पूर्व-विधायकः वरिष्ठ-नेता च केवल-सिंह-ढिल्लों पञ्जाब-भाजपायाः प्रदेशाध्यक्षरूपेण नियुक्तः।

अस्मिन् विषये पक्षस्य राष्ट्रीय-महामन्त्री मुख्यालय-प्रभारी च अरुण-सिंहेन हस्ताक्षरिते पत्रे उक्तं यत् भाजपा-राष्ट्रीय-अध्यक्षः नितिन-नवीनः केवल-सिंह-ढिल्लों इत्यस्य पञ्जाब-भाजपा-प्रदेशाध्यक्षरूपेण नियुक्तिं कृतवान्। उपर्युक्ता नियुक्तिः तत्काल-प्रभावेन प्रवर्तिष्यते।

ढिल्लों बरनाला-क्षेत्रात् द्विवारं (२००७ तथा २०१२ तमे वर्षे) विधायकः आसीत्। सः पूर्व-मुख्यमन्त्रिणः कैप्टन्-अमरिन्दर-सिंहस्य निकटवर्ती नेता इति मन्यते। केवल-सिंह-ढिल्लों प्रायः चतुर्वर्षपूर्वं कांग्रेस-पक्षं त्यक्त्वा भाजपायां सम्मिलितः। अधुना सः पञ्जाबे भाजपायाः सिख-समुदायस्य प्रमुखं मुखं भविष्यति। अस्य पूर्वं पक्षेण सुनील-जाखडः प्रदेशाध्यक्षरूपेण नियुक्तः आसीत्।

गुरुवासरे यदा केवल-सिंह-ढिल्लों प्रदेशाध्यक्षरूपेण घोषितः, तदा सः चण्डीगढ-स्थिते पञ्जाब-लोक-भवने आसीत्। भाजपायाः केचन नेतारः अद्य केवल-सिंह-ढिल्लों-इत्यस्य नेतृत्वे निर्वाचन-आयोगेन सह साक्षात्कारार्थं प्राप्तवन्तः।

ढिल्लों पत्रकारैः सह संवादे उक्तवान् यत् २०२७ तमे वर्षे पञ्जाबे कमल-पुष्पं विकसिष्यति, भाजपायाः सर्वकारः भविष्यति। सम्पूर्ण: भारतीय-जनता-पक्ष: एकता-सूत्रे बद्ध: अस्ति। वयं मिलित्वा विचार-विमर्शं करिष्यामः। पश्चिम-बङ्गालस्य अनन्तरम् अधुना पञ्जाबस्य वारः अस्ति।

कः अस्ति केवल-सिंह-ढिल्लों?

केवल-सिंह-ढिल्लों पञ्जाबस्य बरनाला-जनपदस्य तल्लेवाल-ग्रामस्य निवासी अस्ति। तस्य जन्म १६ मे १९५० तमे वर्षे अभवत्। सः पञ्जाबस्य प्रमुख-उद्योगपतिषु प्रभावशाली-नेतृषु च गणितः। सः ढिल्लों-समूहस्य प्रमुखः अस्ति। तस्य प्रारम्भिकी शिक्षा बरनाला-नगरे अभवत्। सः दीर्घकालं कांग्रेस-पक्षेन सह सम्बद्धः आसीत्। कांग्रेस-पक्षस्य प्रत्याशिरूपेण सः २००७ तथा २०१२ तमे वर्षे बरनाला-क्षेत्रात् विधायकः निर्वाचितः। २०१७ तमे वर्षे आम-आदमी-पक्षस्य गुरमीत-सिंह-मीत-हेयर: इत्यनेन सः पराजितः। जून-मासे २०२२ तमे वर्षे सः कांग्रेस-पक्षं त्यक्त्वा भाजपायां सम्मिलितः।

Hindusthan Samachar / Divya Ranjan