प्रधानमन्त्रिणा मोदी-महोदयेन ईद-उल-अजहा-अवसरे शुभकामनाः प्रदत्ताः
नवदेहली, २८ मे-मासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन अद्य ईद-उल-अजहा-अवसरे देशवासिभ्यः शुभकामनाः प्रदत्ताः। ईद-उल-अजहा अर्थात् बकरीद् अद्य देशस्य अधिकांशभागेषु आचर्यते। प्रधानमन्त्री “एक्स” इति सामाजिकमाध्यमे लिखितवान्— “ईद-उल-अजहा-अव
a28f333a65eebbbda61400ef10464258_238391060.jpg


नवदेहली, २८ मे-मासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन अद्य ईद-उल-अजहा-अवसरे देशवासिभ्यः शुभकामनाः प्रदत्ताः। ईद-उल-अजहा अर्थात् बकरीद् अद्य देशस्य अधिकांशभागेषु आचर्यते।

प्रधानमन्त्री “एक्स” इति सामाजिकमाध्यमे लिखितवान्— “ईद-उल-अजहा-अवसरे शुभकामनाः। मम कामना अस्ति यत् अयं अवसरः अस्माकं समाजे भ्रातृत्वस्य सुखस्य च भावनां अधिकं गभीरां करोतु। सर्वेषां सफलतायै उत्तमस्वास्थ्याय च प्रार्थना।”

Hindusthan Samachar / Divya Ranjan