Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ मे-मासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन अद्य महान् क्रान्तिकारी प्रखरराष्ट्रवादीचिन्तकः वीरसावरकरः (विनायकदामोदरसावरकरः) तथा आन्ध्रप्रदेशस्य पूर्वमुख्यमन्त्री प्रसिद्धनटः नन्दमूरितारकरामारावः (एनटीआर-गारू) च तयोः जयन्त्यवसरे स्मृतौ आनीतौ। प्रधानमन्त्रिणा उक्तं यत् वीरसावरकरस्य साहसं देशभक्तिः च जनान् सदा प्रेरयिष्यतः। तेन स्वातन्त्र्यवीर-सावरकरस्य एनटीआर-गारोः च भावपूर्णं स्मरणं “एक्स” इति सामाजिकमाध्यमे कृतम्।
प्रधानमन्त्री लिखितवान्— “महान् क्रान्तिकारी प्रखरराष्ट्रवादीचिन्तकः वीरसावरकरः तस्य जयन्त्यवसरे सादरं नमस्क्रियते। वीरतया बौद्धिकतया च युक्तं तस्य व्यक्तित्वं राष्ट्रस्य प्रत्येकं वंशं प्रेरयिष्यति।” प्रधानमन्त्रिणा संदेशेन सह श्लोकः अपि लिखितः—
“अनन्तोद्भूतभूतौघसङ्कुले भूतलेऽखिले।शस्त्रे शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः।।’’
अयं श्लोकः मानवस्य अन्तःस्थित-वीरतायाः पराक्रमस्य ज्ञानस्य च महत्त्वं प्रकाशयति। अस्य भावार्थः अस्ति— यदि समाजे कतिपयाः जनाः शास्त्रेषु शस्त्रेषु च निपुणाः पराक्रमिणः च स्युः, तर्हि ते असीमबाधाभिः पूर्णेऽस्मिन् लोके सकारात्मकं शक्तिशालिनं च परिवर्तनम् आनेतुं समर्थाः भवन्ति।
प्रधानमन्त्री लिखितवान्— “वीरसावरकरस्य जयन्त्यां तं स्मरामि। तस्य साहसं देशभक्तिः च सर्वदा जनान् प्रेरयिष्यतः। तस्य बुद्धिमत्ता सामाजिकसुधारस्य विषये तस्य आग्रहः च विशेषरूपेण उल्लेखनीयः अस्ति।”
तेन वीरसावरकरस्य सह एनटीआर-गारोः अपि स्मरणं कृतम्। प्रधानमन्त्रिणा लिखितम्— “महते एनटीआर-गारवे तस्य जयन्त्यवसरे विनम्राः श्रद्धाञ्जलयः। जनकल्याणाय सुशासनाय च तस्य समर्पणभावः स्नेहेन स्मर्यते। तेन निर्धनेभ्यः वञ्चितेभ्यः च गरिमायुक्तं जीवनं सुनिश्चितं कृतम्। चलचित्रक्षेत्रे तस्य योगदानम् अद्यापि वंशान् सम्मोहयति। तस्य जीवनं तस्य आदर्शाः च अद्यापि असीमप्रेरणास्रोतरूपेण स्थिताः सन्ति। आन्ध्रप्रदेशे एनडीए-सर्वकारः मम मित्रस्य चन्द्रबाबूनायडु-गारोः नेतृत्वे जनानां कृते तेन दृष्टाः स्वप्नाः आकाङ्क्षाश्च पूर्णतया साकारयितुं प्रतिबद्धः अस्ति।”
Hindusthan Samachar / Divya Ranjan