लोकसभाध्यक्षः ओम बिरला संसद भवने वीर सावरकराय अददात् श्रद्धांजलिम्
नई दिल्ली, 28 मई (हि.स.)।लोकसभाध्यक्षः ओम् बिरला गुरुवासरे स्वातन्त्र्यवीरविनायकदामोदरसावरकरस्य जयन्त्याः अवसरे संविधानसदनस्य केन्द्रीयकक्षे तस्य चित्रे पुष्पाञ्जलिं समर्प्य श्रद्धाञ्जलिम् अर्पितवान्। अस्मिन् अवसरे अनेकैः केन्द्रीयमन्त्रिभिः सांसदै
लोकसभा अध्यक्ष ओम बिरला के साथ केंद्रीय मंत्री विनायक दामोदर सावरकर पुष्पांजलि अर्पित करने के बाद।


नई दिल्ली, 28 मई (हि.स.)।लोकसभाध्यक्षः ओम् बिरला गुरुवासरे स्वातन्त्र्यवीरविनायकदामोदरसावरकरस्य जयन्त्याः अवसरे संविधानसदनस्य केन्द्रीयकक्षे तस्य चित्रे पुष्पाञ्जलिं समर्प्य श्रद्धाञ्जलिम् अर्पितवान्। अस्मिन् अवसरे अनेकैः केन्द्रीयमन्त्रिभिः सांसदैः पूर्वसांसदैश्च वीरसावरकराय नमनं कृतम्।

श्रद्धाञ्जलिकार्यक्रमे केन्द्रीयस्वास्थ्यपरिवारकल्याणरसायनउर्वरकमन्त्री जेपी नड्डा, संसदीयकार्यअल्पसंख्यककार्यमन्त्री किरेन रिजिजू, विधिन्यायसंसदीयकार्यराज्यमन्त्री (स्वतन्त्रप्रभारः) अर्जुनराम मेघवाल तथा भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिन नवीन सहिताः अनेकाः गणमान्यजनाः उपस्थिताः आसन्।

संविधानसदनस्य केन्द्रीयकक्षे स्थापितं स्वातन्त्र्यवीर वीडी सावरकरस्य चित्रं प्रसिद्धचित्रकारेण चन्द्रकला कुमार कदम इत्यनेन निर्मितम् आसीत्। अस्य चित्रस्य आधिकारिकावरणोन्मीलनं २६ फरवरी २००३ तमे वर्षे तत्कालीनराष्ट्रपतिना डॉ एपीजे अब्दुल कलाम इत्यनेन कृतम्।

उल्लेखनीयम् अस्ति यत् स्वातन्त्र्यवीरविनायकदामोदरसावरकरः, यः वीरसावरकरनाम्ना प्रसिद्धः आसीत्, तस्य जन्म २८ मई १८८३ तमे वर्षे अभवत्। सः भारतस्य स्वतन्त्रताआन्दोलनस्य प्रमुखः क्रान्तिकारिः कविः लेखकः समाजसुधारकश्च आसीत्। तेन ब्रिटिशशासनस्य विरुद्धं स्वतन्त्रतासङ्ग्रामे महत्त्वपूर्णा भूमिका निर्वहिता तथा युवजनाः राष्ट्रभक्त्यै क्रान्तिकारिकार्यकलापेभ्यश्च प्रेरिताः।

वीरसावरकरेण अण्डमाननिकोबारद्वीपसमूहस्य सेल्युलरकारागारे कठोरकारावासकाले अदम्यसाहसस्य दृढसंकल्पस्य च परिचयः प्रदर्शितः। सामाजिकसुधारस्य आधुनिकभारतनिर्माणस्य च समर्थकः सावरकरः तर्कवादस्य सामाजिककुरीतीनां उन्मूलनस्य आत्मनिर्भरभारतस्य परिकल्पनायाश्च प्रोत्साहनं कृतवान्।

तस्य जीवनं विचाराश्च अद्यापि देशभक्तेः साहसस्य सामाजिकसुधारस्य च प्रेरणां ददति।

---------------

Hindusthan Samachar / Dheeraj Maithani