Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 28 मईमासः (हि.स.)। महान् समाज-सुधारकस्य, शिक्षाविदः तथा भारतीय-नवजागरणस्य अग्रदूतस्य राजा राममोहन राय जयंती-अवसरे गुरुवासरे नगरे विभिन्नाभिः सामाजिक-शैक्षणिक-संस्थाभिः कार्यक्रमाः आयोजिताः। अस्मिन् अवसरे वक्तृभिः तस्य सामाजिक-सुधारस्य, महिला-शिक्षायाः तथा सती-प्रथा-उन्मूलनस्य कृते कृतानि ऐतिहासिक-कार्याणि स्मारितानि।
कार्यक्रमे शिवराज-शिक्षण-जनसेवा-संस्थानस्य प्रदेशाध्यक्षः परसराम तिवाड़ी उक्तवान् यत् राजा-राममोहन-रायः भारतीय-समाजे नवीन-चेतनायाः सञ्चारं कृतवान् तथा महिलाभ्यः अधिकार-प्राप्त्यर्थं महत्त्वपूर्णं संघर्षं कृतवान्। तेन शिक्षा, समानता तथा सामाजिक-न्यायस्य मूल्यानि प्रोत्साहयित्वा आधुनिक-भारतस्य आधारं दृढीकर्तुं कार्यं कृतम्।
अस्मिन् अवसरे उपस्थितैः जन-प्रतिनिधिभिः, समाज-सेविभिः तथा गणमान्य-नागरिकैः तस्य चित्रे पुष्पाञ्जलिः अर्पिता तथा श्रद्धाञ्जलिः प्रदत्ता। सहैव युवभ्यः तस्य आदर्शान् स्वीकर्तुम् आह्वानम् अपि कृतम्। कार्यक्रमे विद्यार्थिभिः भाषणानि, सांस्कृतिक-प्रस्तुतयः तथा पोस्टर-निर्माण-प्रतियोगितायाः आयोजनम् अपि कृतम्। अन्ते आयोजकैः उक्तं यत् राजा-राममोहन-रायस्य विचाराः अद्यापि समाजाय नवीनां दिशं दातुं प्रेरणा-स्रोतः सन्ति तथा तेन प्रदर्शिते मार्गे चलित्वा एव समतामूलकस्य जागरूकस्य च समाजस्य निर्माणं सम्भवम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani