Enter your Email Address to subscribe to our newsletters

लखनऊ, 28 मईमासः (हि.स.)।
रक्षामन्त्री तथा लखनऊसांसदः राजनाथ सिंहः, मुख्यमन्त्री योगी आदित्यनाथश्च ३० मई दिने सीजीसीटी लखनऊ इत्यत्र नवनिर्मितस्य नौसेनासंग्रहालयस्य लोकार्पणं करिष्यतः।
गुरुवासरे पर्यटनमहानिदेशकः वेदपति मिश्रः अवदत् यत् नौसेनासंग्रहालयस्य निर्माणं भारतीयनौसेनया उत्तरप्रदेशपर्यटनविभागेन च संयुक्तरूपेण कृतम्। अस्मिन् समुद्ररक्षणकर्त्र्याः नौसेनायाः वीरता शक्तिः पराक्रमः तकनीकीदक्षता च प्रदर्शिता अस्ति। अस्मिन् संग्रहालये दर्शकाः अनेकानि नौसैनिकयन्त्राणि द्रष्टुं शक्नुवन्ति।
तदतिरिक्तं अत्र शौर्यवाटिका ओपन एयर म्यूजियम इत्यत्र टीयू—१४२ विमानं तथा एसके—४२ बी हेलीकॉप्टर इत्येतौ संग्रहालये स्थापितौ भविष्यतः।
Hindusthan Samachar / Dheeraj Maithani