सोलर ऊर्जा, इलेक्ट्रिक वाहन और गोबर गैस अपनाने का आह्वान, जयपुर में ऊर्जा संरक्षण अभियान का शुभारम्भ
जयपुरम्, 28 मईमासः (हि.स.)। वर्धमानासु ऊर्जाआवश्यकतासु वैश्विकसंकटकाले च आत्मनिर्भरभारतस्य निर्माणाय ऊर्जासंरक्षणमेव महत्तमं शस्त्रमिति प्रतिपादयन् स्वदेशीजागरणमञ्चः जनजागरणस्य बिगुलं प्रावादयत्। स्वदेशीजागरणमञ्चस्य जयपुरसांगानेरमहानगरशाखया आयोजि
विचार वर्ग


जयपुरम्, 28 मईमासः (हि.स.)।

वर्धमानासु ऊर्जाआवश्यकतासु वैश्विकसंकटकाले च आत्मनिर्भरभारतस्य निर्माणाय ऊर्जासंरक्षणमेव महत्तमं शस्त्रमिति प्रतिपादयन् स्वदेशीजागरणमञ्चः जनजागरणस्य बिगुलं प्रावादयत्। स्वदेशीजागरणमञ्चस्य जयपुरसांगानेरमहानगरशाखया आयोजिते एकदिवसीये विचारवर्गे ऊर्जासंरक्षणं स्वदेशी आत्मनिर्भरता च विषयीकृत्य व्यापकं मन्थनम् अभवत्। कार्यक्रमस्य आयोजनं सांगानेरस्थिते जीडी इण्टरनेशनलविद्यालये कृतम्।

कार्यक्रमे मुख्यवक्ता स्वदेशीजागरणमञ्चस्य राजस्थानक्षेत्रसमन्वयकः लोकेन्द्रसिंहनरूका अवदत् यत् वर्तमानकाले सम्पूर्णा दुनिया ऊर्जासंकटस्य समक्षीकरोति। अनेके देशाः गैस पेट्रोल तथा ऊर्जासंसाधनानां कृते अन्यदेशेषु निर्भराः सन्ति। एतादृशे समये भारतस्य आत्मनिर्भरत्वाय ऊर्जासंरक्षणदिशि गम्भीरप्रयत्नाः करणीयाः।

तेन उक्तं यत् ऊर्जारक्षणं केवलम् आर्थिकावश्यकता नास्ति अपितु राष्ट्रनिर्माणस्य अभियानम् अस्ति। यदि प्रत्येकः जनः विद्युत् गैस पेट्रोल च उपभोगं न्यूनीकर्तुं संकल्पं कुर्यात् तर्हि देशः ऊर्जाक्षेत्रे आत्मनिर्भरः भवितुं शक्नोति। लोकेन्द्रसिंहनरूका अवदत् यत् अद्य सोलरऊर्जा गोबरगैस पवनऊर्जा इलेक्ट्रिकवाहनानि तथा इण्डक्शनचूल्ही इत्यादयः वैकल्पिकसाधनानि स्वीकर्तुं कालस्य आवश्यकता अभवत्। तेन जनान् प्रति आह्वानं कृतं यत् ते दैनिकजीवने ऊर्जारक्षणं स्वभावरूपेण स्वीकरोतु।

तेन उक्तं यत् स्वदेशीजागरणमञ्चः ऊर्जासंरक्षणविषये प्रदेशव्यापि जनजागरणाभियानमपि चालयति येन सामान्यजनाः ऊर्जाबचतेः महत्त्वेन सह सम्बद्धाः भवन्ति।

विचारवर्गे स्वदेशीजागरणमञ्चस्य विकासयात्राविषये अपि चर्चा अभवत्। वक्ता सुदेशसैनी “स्वदेशीविकासयात्रा” विषयम् अधिकृत्य स्वविचारान् प्रस्तुतवान् यत् दत्तोपन्तठेंगड़ी महोदयेन २२ नवम्बर १९९१ तमे वर्षे स्वदेशीजागरणमञ्चस्य स्थापना कृता। तेन उक्तं यत् मञ्चः निरन्तरम् आर्थिकस्वावलम्बनं स्वदेशीउत्पादानां उपयोगं राष्ट्रहितस्य आर्थिकविषयान् च अधिकृत्य जनजागरणकार्यं करोति।

कार्यक्रमे प्रान्तसमन्वयकः दिनेशचन्द्रशर्मा ऊर्जासंरक्षणाभियानस्य विस्तृतां जानकारीं प्रदाय कार्यकर्तॄन् तत् जनजनपर्यन्तं प्रसारयितुं आहूतवान्। तथा च प्रान्तपूर्णकालिकः पंकजसैनी उपस्थितकार्यकर्तॄन् ऊर्जासंरक्षणस्य संकल्पं ग्राहयामास। कार्यक्रमे जनैः ऊर्जाबचतिं स्वदेशीजीवनशैलीं च स्वीकर्तुं संकल्पः कृतः।

कार्यक्रमस्य अध्यक्षतां जीडी इण्टरनेशनलविद्यालयस्य निदेशकः गजाननशर्मा अकरोत्। मुख्यातिथिः सामाजिककार्यकर्ता महेशचन्द्रगुप्तः आसीत् येन स्वदेशी स्वावलम्बनं च विषयीकृत्य प्रभावीविचाराः प्रस्तुताः। जयपुरमहानगरसंयोजकः शम्भूसिंहराजावत् जयपुरनगरे ऊर्जासंरक्षणजनजागरणाभियानं व्यापकस्तरे सञ्चालनस्य आह्वानम् अकरोत्।

विचारवर्गे स्वदेशीजागरणमञ्चस्य अनेके पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्। एतेषु ओमप्रकाशकुमावत् पंकजसैनी योगेन्द्रसिंहनरूका विनयशर्मा जितेन्द्रशर्मा सतवीरत्यागी चेतनसैनी वीणापरिहार गौरवबांसरे इत्यादयः अनेके कार्यकर्तारः सहभागित्वं कृतवन्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani