मध्यप्रदेशभवनम् - नवदेहल्यां अद्यतः द्विदिवसीयस्य “समर कैम्प २०२६” इत्यस्य आयोजनं भविष्यति
भोपालनगरम्, २८ मे-मासः (हि.स.)। मध्यप्रदेशसर्वकारेण बालकानां रचनात्मकप्रतिभानां प्रोत्साहनार्थं “समर कैम्प २०२६” इत्यस्य आयोजनं क्रियते। एषः द्विदिवसीयः समरकैम्प अद्य गुरुवासरात् मध्यप्रदेशभवने, चाणक्यपुर्यां, नवदेहल्यां आयोज्यते। जनसम्पर्काधिकारी
मध्य प्रदेश भवन, नई दिल्ली


भोपालनगरम्, २८ मे-मासः (हि.स.)। मध्यप्रदेशसर्वकारेण बालकानां रचनात्मकप्रतिभानां प्रोत्साहनार्थं “समर कैम्प २०२६” इत्यस्य आयोजनं क्रियते। एषः द्विदिवसीयः समरकैम्प अद्य गुरुवासरात् मध्यप्रदेशभवने, चाणक्यपुर्यां, नवदेहल्यां आयोज्यते।

जनसम्पर्काधिकारी संजयसक्सेना अवदत् यत् समरकैम्प-इत्यस्य समयः मध्याह्ने द्वादशवादनतः सायं षड्वादनपर्यन्तं निर्धारितः अस्ति। अस्मिन् षट्-वर्षात् चतुर्दश-वर्षपर्यन्तस्य आयुवर्गस्य बालकाः सहभागं कर्तुं शक्नुवन्ति। सहभागिनां कृते पञ्जीकरणशुल्कं प्रति-सहभागी द्विशत-रूप्यकाणि निर्धारितानि सन्ति।

तेन उक्तं यत् कैम्प-इत्यस्य समये बालकाणां कृते विविधाः रोचकाः रचनात्मकाः च कार्यक्रमाः आयोज्यन्ते। तेषु ट्रेजर-हण्ट, फैब्रिक-पेण्टिङ्ग, मण्डला-आर्ट, डीआईवाई-प्रकल्पाः, अग्निविहीनपाककर्म तथा कथा-गीत-कविता-सम्बद्धाः गतिविधयः समाविष्टाः सन्ति।

कार्यक्रमस्य प्रथमदिने ट्रेजर-हण्ट, अग्निविहीनपाककर्म तथा सहभागिनां सांस्कृतिकप्रस्तुतयः आयोज्यन्ते। द्वितीयदिने, अर्थात् २९ मे-मासे, फैब्रिक-पेण्टिङ्ग, डीआईवाई-प्रकल्पाः तथा मण्डला-आर्ट्-सम्बद्धाः कार्यक्रमाः आयोज्यन्ते। उभयोः दिवसयोः बालकानां कृते विनोदः, भोजनम्, विश्रान्तिकालः च अपि निर्धारितः अस्ति।

समरकैम्प-इत्यस्य समापनावसरे २९ मे-मासे सायं षड्वादनतः “कल्चरल ईवनिङ्ग” इत्यस्य आयोजनं भविष्यति, यस्मिन् मध्यप्रदेशस्य कलाकारैः सांस्कृतिक-प्रस्तुतयः प्रदास्यन्ते। तेन सह सर्वेभ्यः सहभागिभ्यः सहभागिताप्रमाणपत्राणि अपि वितरितानि भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan