Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, २८ मे-मासः (हि.स.)। गोवंशसंरक्षणाय गो-आश्रयस्थलानां सुदृढीकरणाय च पशुपालनविभागेन व्यापककार्ययोजना सज्जीकृता अस्ति। अस्याः योजनायाः अन्तर्गतं गो-आश्रयस्थलानाम् आधारभूतसुविधानां सुदृढीकरणाय, विभागीयसमन्वयवृद्धये, जनसहभागितायाः सुनिश्चित्यै आधुनिकप्रौद्योगिकीनां उपयोगाय च विशेषः प्रयत्नः क्रियते। एतां सूचनां दत्त्वा गुरुवासरे मुख्यपशुचिकित्साधिकारी डॉ.शिवनाथयादवः अवदत् यत् गोवंशसंरक्षणं केवलं सर्वकारस्य दायित्वं न, अपितु सामाजिकसहभागितायाः अपि विषयः अस्ति।
तेन उक्तं यत् सर्वकारस्य इच्छानुसारं गो-आश्रयस्थलानि उत्तमसुविधाभिः युक्तानि निर्मीयन्ते, येन गोवंशाय सुरक्षितं सुव्यवस्थितं च वातावरणं प्राप्तुं शक्यते।
तेन सूचितं यत् गो-आश्रयस्थलेषु अतिरिक्तछदिनिर्माणम्, हरिततृणैः सह कर्तननयन्त्राणां व्यवस्था, गोमयस्य अपशिष्टस्य च प्रबन्धनम्, विद्युत्प्रकाश-व्यवस्था तथा अग्निशमन-यन्त्राणाम् उपलब्धता सुनिश्चितीक्रियते। तेन सह पशूनां कृते स्वच्छपेयजलस्य नियमित-स्वास्थ्यसेवानां च व्यवस्था अपि प्राथमिकतया क्रियते।
डॉ.यादवः अवदत् यत् पशुपालनविभागस्य, कृषिविभागस्य, सिंचनविभागस्य, पञ्चायतीराजविभागस्य राजस्वविभागस्य च मध्ये उत्तमः समन्वयः स्थाप्यते, येन गोसंरक्षणकार्याणि अधिकप्रभाविणि भवन्ति। कृषिविभागेन चारा-उत्पादनस्य गोचरभूमेः उपलब्धेः च विषये विशेषं ध्यानं दीयते।
तेन उक्तं यत् जनसहभागितावृद्धये स्वयंसैवीसंस्थाः, स्थानीयकृषकाः सामाजिकसंघटनानि च अभियानेन सह सम्बद्धानि क्रियन्ते। सीएसआर-माध्यमेन तृण-जलव्यवस्था तथा दानाधारित-भूसासंग्रह-अभियानानि अपि संचाल्यन्ते।
मुख्यपशुचिकित्साधिकारी अवदत् यत् आपत्कालीनपरिस्थितीनां निवारणाय विशेषकार्ययोजना सज्जीकृता अस्ति। अस्याः योजनायाः अन्तर्गतं निराश्रय-गोवंशस्य परिचयः, सुरक्षितस्थानेषु स्थानान्तरणम्, चलत्पशुचिकित्सा-विभायानां नियुक्तिः तथा जनपदस्तरे नियन्त्रणकक्षस्य स्थापना च कृता अस्ति।
तेन सूचितं यत् गोसंरक्षणकार्येषु आधुनिकप्रौद्योगिकीनाम् अपि उपयोगः क्रियते। जीपीएस-जीआईएस-आधारित-गोचरभूमिप्रबन्धनम्, चलखाद्यकोषः, हाइड्रोपोनिक-हरितचारा-एककानि, बायोगैस-जैविकखाद-एककानि तथा सौर-ऊर्जया चालितजल-पम्पव्यवस्था इत्यादयः विकसिताः क्रियन्ते।
डॉ.शिवनाथयादवः विश्वासं प्रकटितवान् यत् एतेषां प्रयत्नानां परिणामेन गो-आश्रयस्थलानां व्यवस्थाः अधिकाः उत्तमाः भविष्यन्ति, पशुमृत्युदरे न्यूनता भविष्यति तथा गोवंशसंरक्षणं स्थायिरूपेण प्रभाविरूपेण च स्थापितं भविष्यति। तेन उक्तं यत् स्वस्थगोवंशः, समृद्धः समाजः सुरक्षितं भविष्यञ्च इति दिशि एतत् अभियानं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
Hindusthan Samachar / Divya Ranjan