Enter your Email Address to subscribe to our newsletters

वाराणसी, 28 मईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीस्थितस्य काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) विज्ञानसंस्थानस्य भौतिकीविभागस्य वरिष्ठप्राध्यापकः प्रो. संजय कुमार “एडिटोरियल कंट्रीब्यूशन अवार्ड” इति सम्माननेन सम्मानितः अस्ति। स्प्रिंगर नेचर संस्थया प्रदीयमानानां “स्प्रिंगर नेचर एडिटर ऑफ डिस्टिंक्शन अवार्ड्स” इत्यस्य अन्तर्गतं एषः सम्मानः प्रदत्तः। गुरुवासरे विश्वविद्यालयस्य जनसम्पर्ककार्यालयेन एषा सूचना प्रदत्ता।
उक्तं यत् स्प्रिंगर नेचर विश्वस्य शैक्षणिकवैज्ञानिकशैक्षिकप्रकाशनसंस्था अस्ति, या प्रतिवर्षं स्वस्य वैश्विकशैक्षणिकसमुदाये सम्पादकीयउत्कृष्टतायाः मान्यतार्थं विभिन्नसम्मानान् प्रददाति। “एडिटोरियल कंट्रीब्यूशन अवार्ड” तेषां सम्पादकानां कृते प्रदीयते ये शोधालेखानां मूल्याङ्कने प्रस्तुतशोधपत्राणां सावधानपूर्वकसमीक्षायां तथा सहकर्मीसमीक्षाप्रक्रियायाः प्रभाविसञ्चालने उत्कृष्टं योगदानं दत्तवन्तः।
एषः सम्मानः तेषां सम्पादकानां कृते प्रदीयते ये सहकर्मीसमीक्षार्थं प्रेषितानां पाण्डुलिपीनां प्रबन्धने शीर्ष २० प्रतिशतसम्पादकेषु सम्मिलिताः भवन्ति। अनेन पुरस्कारेण स्प्रिंगर नेचर संस्था स्वस्य वैश्विकशैक्षणिकसमुदाये सम्पादकीयउत्कृष्टतां प्रोत्साहयति।
प्रो. संजय कुमारः स्वस्य उत्कृष्टसम्पादकीययोगदानाय, शोधपत्राणां गहनगुणवत्तापूर्णमूल्याङ्कनाय तथा सहकर्मीसमीक्षाप्रक्रियायाः कुशलसञ्चालनाय “एडिटोरियल कंट्रीब्यूशन अवार्ड” इति सम्माननेन सम्मानितः अस्ति।-----------------
Hindusthan Samachar / Dheeraj Maithani