Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 28 मईमासः (हि.स.)।
अखिलभारतीयअखाडापरिषदः अध्यक्षः श्रीमहन्तरविन्द्रपुरीमहाराजः अवदत् यत् नासिक, उज्जयिनी तथा हरिद्वारे आयोज्यमानानां कुम्भमेलानां दिव्यभव्यरूपेण सम्पन्नतार्थम् अखाडापरिषदः निरन्तरं सक्रियः अस्ति।
श्रीमहन्तः अवदत् यत् मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवेन सह उपवेशनं कृत्वा द्विसहस्राष्टाविंशत्यां वर्षे आयोज्यमानस्य उज्जयिनीमहाकुम्भमेलस्य कृते अखाडानां सन्तानां च अधिकाधिकसुविधाप्रदानस्य आग्रहः कृतः अस्ति।
अतिरिक्तरूपेण द्विसहस्रसप्तविंशत्यां वर्षे आयोज्यमानस्य नासिकमहाकुम्भमेलस्य सम्बन्धे महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्रफडणवीसस्य सह वार्ताक्रमः अपि निरन्तरं प्रवर्तमानः अस्ति। नासिककुम्भमेले अखाडानां सुविधासाहाय्यसम्बद्धे अखाडापरिषदः प्रस्तावे मुख्यमन्त्री देवेन्द्रफडणवीसः सहमतिं प्रदर्श्य अधिकारिभ्यः निर्देशान् निर्गतवान्।
श्रीमहन्तरविन्द्रपुरी अवदत् यत् आगामिवर्षे द्विसहस्रसप्तविंशत्यां वर्षे हरिद्वारे अपि कुम्भमेलस्य आयोजनं भविष्यति। हरिद्वारः देशस्य प्रमुखधर्मनगरी अस्ति। हरिद्वारे कुम्भमेलस्य भव्यायोजनात् सनातनसंस्कृतेः विषये समग्रविश्वे सकारात्मकसन्देशः प्रसारितः भविष्यति।
ते अवदन् यत् हरिद्वारकुम्भस्य सम्बन्धे चर्चार्थम् अखाडापरिषदः महामन्त्री श्रीमहन्तहरिगिरिः अन्यैः सन्तैः सह शीघ्रमेव उत्तराखण्डस्य मुख्यमन्त्रिणा पुष्करसिंहधामिना सह अपि वार्तां करिष्यति।