Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 28 मईमासः (हि.स.)।
मुख्यमन्त्रिणः पुष्कर सिंह धामिनो यत्नेन प्रदेशस्य पेंशन-भोगिनां कृते जीवन-प्रमाण-पत्रस्य (लाइफ-सर्टिफिकेट्) सत्यापनं अधुना पूर्वापेक्षया अधिकं सरलम् तथा पारदर्शि जातम् अस्ति। डिजिटल-प्रौद्योगिक्याः उपयोगेन पेंशन-भोगिनः अधुना गृहे उपविश्य एव स्वस्य जीवन-प्रमाण-पत्रं ऑनलाइन-रीत्या सत्यापयितुं शक्नुवन्ति, येन कार्यालयानां परिभ्रमणात् तेषां रक्षणं जातम् अस्ति।
प्रदेशे वर्तमानकाले प्रायः १.५ लक्ष-सेवानिवृत्तिवेतन-भोगिनः सन्ति, यदा देहरादून-नगरे २२ सहस्राधिकाः पेंशन-भोगिनः निवसन्ति। एतेषां सर्वेषां सत्यापनं सुगमं कर्तुं “जीवन-प्रमाण” अनुप्रयोगस्य तथा “आधार-फेस्-आरडी” प्रौद्योगिक्याः उपयोगः क्रियमाणः अस्ति। अनेन माध्यमेन पेंशन-भोगिनः डिजिटल-लाइफ-सर्टिफिकेट् सरलतया ऑनलाइन-रीत्या समर्पयितुं शक्नुवन्ति।
देहरादून-कचहरी-स्थिते मुख्य-कोषाधिकारी-कार्यालये स्थापिते पेंशनर-फैसिलिटेशन-हॉल् मध्ये अपि डीएलसी-माध्यमेन निरन्तरं सत्यापनं क्रियमाणम् अस्ति। अत्र पेंशन-भोगिभ्यः आधार-अद्यतनीकरणेन सह डिजिटल-प्रक्रियायाः प्रशिक्षणम् अपि प्रदीयते।
जिलाधिकारी डॉ. आशीष चौहान देहरादून-जनपदे कार्यभारं स्वीकृत्य प्रथम-दिने एव कोषागारस्य निरीक्षणं कृत्वा अधिकाधिकानां पेंशन-भोगिनां डिजिटल-माध्यमेन सत्यापनं कारयितुं निर्देशान् प्रदत्तवान्, येन वरिष्ठ-पेंशन-भोगिनः गृहे उपविश्य एव सुविधायाः लाभं प्राप्तुं शक्नुयुः।
पेंशन-भोगिनः “जीवन-प्रमाण” अनुप्रयोगस्य माध्यमेन ऑपरेटर-आइडी निर्माय गृहे उपविश्य अपि स्वस्य सत्यापनं कर्तुं शक्नुवन्ति। एतदर्थं आधारस्य अद्यतनता तथा आधार-सङ्ख्यायाः मोबाइल-सङ्ख्यया एवं कोषागारेण सह सम्बद्धता आवश्यकम् अस्ति।
अतिरिक्ततया आईएफएमएस् (इण्टीग्रेटेड्-फाइनेंशियल्-मैनेजमेण्ट्-सिस्टम्) अनुप्रयोगस्य माध्यमेन पेंशन-भोगिनः स्वस्य सत्यापन-स्थितिं (सक्रियं अथवा निष्क्रियं) ऑनलाइन-द्रष्टुं शक्नुवन्ति तथा पेंशन-विवरण-पत्रम् अपि डाउनलोड् कर्तुं शक्नुवन्ति।
पेंशन-भोगिनां सहाय्यार्थं निदेशालय-कोषागारेण ८८९९८९०००० इति हेल्पलाइन-सङ्ख्या प्रकाशिताऽस्ति, यदा अधिक-विवरणार्थं treas-fdc-uk@nic.in इत्यस्मिन् सम्पर्कः कर्तुं शक्यते।
अस्याः डिजिटल-पहलायाः कारणेन वृद्ध-पेंशन-भोगिनः दीर्घ-पङ्क्तिभ्यः मुक्तिं प्राप्तवन्तः तथा ते सुरक्षितेन, सरल-रीत्या तथा सुविधाजनक-प्रकारेण गृहे उपविश्य एव सत्यापनं कर्तुं शक्नुवन्ति।
दून-निवासी पेंशन-भोगी श्रीकान्त-उपाध्याय उक्तवान् यत् तस्मै पेंशनर-फैसिलिटेशन-हॉल् मध्ये डिजिटल-लाइफ-सर्टिफिकेट् समर्पणस्य प्रशिक्षणं दत्तम्, येन सः भविष्ये गृहे उपविश्य एव सरलतया स्वस्य लाइफ-सर्टिफिकेट् नवीनीकरणं कर्तुं शक्नुयात्। तेन एषा व्यवस्था वरिष्ठ-नागरिकाणां कृते अत्यन्तं उपयोगिनी इति उक्तम्।
मुख्य-कोषाधिकारी नीतू भंडारी उक्तवती यत् पेंशन-भोगिनां सुविधार्थं कोषागारे पेंशनर-फैसिलिटेशन-हॉल् स्थापितः अस्ति, यत्र तेषां ऑनलाइन-प्रक्रियायाः प्रशिक्षणं प्रदीयते। तया उक्तं यत् अन्य-जनपदानां पेंशन-भोगिनः अपि, ये वर्तमानकाले देहरादून-नगरे निवसन्ति, अस्याः सुविधायाः लाभं ग्रहीतुं शक्नुवन्ति।
तया सेवानिवृत्तिवेतन-भोगिभ्यः अपील् कृता यत् ऑनलाइन-सत्यापनस्य समये आधारतः प्राप्तं ओटीपी कस्यापि अपरिचित-व्यक्तेः सह न साझा कुर्वन्तु तथा केवलम् अधिकृताय विश्वसनीयाय ऑपरेटराय एव स्वीयां सूचनां ददतु।
Hindusthan Samachar / Dheeraj Maithani