Enter your Email Address to subscribe to our newsletters

शाहः उमियाधाम्नः अत्याधुनिकच्छात्रावासस्य अकरोत् उद्घाटन, वीर सावरकरोऽपि स्मृतः
अहमदाबादम्, 28 मईमासः (हि.स.)।
केन्द्रीयगृहमन्त्री अमित शाहः उक्तवान् यत् पश्चिमबङ्गालनिर्वाचने यानि वचनानि अस्माभिः दत्तानि आसन् तेषामनुसारं बाङ्ग्लादेशसीम्नि तारबन्धनं सुरक्षाव्यवस्था च अधिकं सुदृढीक्रियते। अस्माकं शासनस्य संकल्पः अस्ति यत् सम्पूर्णदेशात् प्रत्येकः अवैधप्रवेशकारी निष्कासितः भविष्यति।
केन्द्रीयमन्त्री शाहः स्वस्य द्विदिवसीयगुजरातप्रवासस्य द्वितीयदिने गुरुवासरे अहमदाबादनगरस्य एस.जी. हाइवे स्थिते सोला उमियाधाम परिसरमध्ये पाटीदारसमाजस्य युवजनानां कृते नवनिर्मितस्य जे.एस. पटेल कुमार छात्रावासस्य तपस्वीकुमार पटेल कन्या छात्रावासस्य च उद्घाटनावसरे सम्बोधनं कुर्वन् आसीत्।
शाह उक्तवान्, “प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य नेतृत्वे अद्य देशस्य अशीतिप्रतिशतं भूभागं भाजपाशासनाधीनम् अस्ति। पश्चिमबङ्गालनिर्वाचने यानि वचनानि अस्माभिः दत्तानि आसन् तेषामनुसारं बाङ्ग्लादेशसीम्नि तारबन्धनं सुरक्षाव्यवस्था च अधिकं सुदृढीक्रियते। पश्चिमबङ्गालशासनेन सप्तदिनेषु षट्शतहेक्टेयरपरिमिता भूमिः बीएसएफ संस्थायै समर्पिता। अस्माकं शासनस्य संकल्पः अस्ति यत् सम्पूर्णदेशात् प्रत्येकः घुसपैठकारी निष्कासितः भविष्यति। एतदर्थं केन्द्रशासनेन ‘डेमोग्राफी चेञ्ज कमीशन’ इति आयोगस्य स्थापना क्रियते यः एकवर्षस्य अन्ते स्वीयां प्रतिवेदनरिपोर्टं समर्पयिष्यति तथा अवैधजनसंख्यासन्तुलननिरोधाय नवीनविधाननिर्माणदिशि कार्यं करिष्यति।”
गृहमन्त्री स्वतन्त्रतासेनानी वीर सावरकरं स्मरन् उक्तवान्, “अद्य वीर सावरकरस्य जयन्ती अस्ति। सः एवं प्रखरः राष्ट्रभक्तः आसीत् यस्य कृते कस्यापि शासकीयसम्मानस्य आवश्यकता नासीत्। देशस्य बालकः बालिका च तं वीर सावरकरनाम्ना जानाति। आङ्ग्लशासकैः तस्मै एकस्मिन्नेव जीवने द्विवारम् आजीवनकारावासदण्डः दत्तः। तेन कारागारस्य भित्तिषु स्वस्य रक्तेन कविताः लिखिताः तथा समाजे अस्पृश्यताविरोधे महत्त्वपूर्णं कार्यं कृतम्।”
तेन उक्तं यत् प्रायः चतुर्लक्षत्रयस्त्रिंशत्सहस्रवर्गफुटपरिमिते क्षेत्रे निर्मिते अस्मिन् अत्याधुनिकछात्रावासे उच्चशिक्षार्थम् आगच्छद्भ्यः प्रायः षोडशशतविद्यार्थिभ्यः निवासभोजनयोः फाइवस्टारसदृश्याः स्मार्टसुविधाः प्रदास्यन्ते। सहैव यूपीएससी जीपीएससी इत्यादीनां प्रतियोगीपरीक्षाणां सिद्धतायै विश्वस्तरीयं शैक्षणिकवातावरणमपि उपलब्धं भविष्यति। अस्मिन् अन्तरराष्ट्रीयस्तरीये छात्रावासप्रकल्पे द्विलक्षषोडशसहस्राष्टशतसप्तवर्गफुटपरिमिता कुमारछात्रावासः तथा द्विलक्षोनविंशतिसहस्राष्टशतसप्तवर्गफुटपरिमिता कन्याछात्रावासः निर्मितः अस्ति। उभौ मिलित्वा चतुर्लक्षत्रयस्त्रिंशत्सहस्रनवशतचतुर्दशवर्गफुटपरिमिते विस्तीर्णे क्षेत्रे एषः विशालः परिसरः सिद्धः कृतः अस्ति।
ऊंझा कडवा पाटीदारसमाजस्य उमिया माताजी संस्थानेन निर्मितस्य अस्य महाप्रकल्पस्य उद्घाटनसमारोहे मुख्यमन्त्री भूपेन्द्र पटेल सहिताः पाटीदारसमाजस्य वरिष्ठनेतारः अन्ये च बहवः गणमान्याः उपस्थिताः आसन्।
---------------