Enter your Email Address to subscribe to our newsletters

धानद्वारा औषधीयकृषिं प्रति वर्धितं पदम्, “पैडी डायवर्सन मॉडल’ इत्येतज्जातः कृषकाणा आत्मनिर्भरतायाः आधारः
रायपुरम् ,मईमासः (हि.स.)।
वनमन्त्री केदार कश्यपस्य मार्गदर्शनेन छत्तीसगढ़ आदिवासी स्थानीय स्वास्थ्यपरम्परा तथा औषधिपादपबोर्डद्वारा सञ्चालितः “पैडी डायवर्सन मॉडल” इति उपक्रमः प्रदेशस्य कृषकाणां कृते आर्थिकपरिवर्तनस्य नूतनां कथां लिखति। धानस्य पारम्परिककृषेः स्थाने औषधीयपादपकृषेः प्रोत्साहनं कुर्वता अनेन उपक्रमेण अधुना यावत् १४७ कृषकाणां आयायां उल्लेखनीया वृद्धिः अभिलेखिता अस्ति।
वनमन्त्री केदार कश्यपः अद्य गुरुवासरे उक्तवान् यत् राज्यसरकारः कृषकाणां आयवृद्धये कृषिं च अधिकलाभकारीं कर्तुं निरन्तरं नवाचाराधारितप्रारूपान् विकसितवती अस्ति। तेन उक्तं यत् औषधीयकृषिः केवलं फसलपरिवर्तनं न, अपितु ग्रामीणार्थव्यवस्थां सुदृढां कर्तुं कृषकान् आत्मनिर्भरान् निर्मातुं च अभियानम् अस्ति।
तेन उक्तं यत् “पैडी डायवर्सन मॉडल” अन्तर्गतं कृषकाः धानक्षेत्रेषु ‘वच’ तथा ‘ब्राह्मी’ इत्यादीनाम् औषधीयफसलानां कृष्यर्थं प्रोत्साहिताः, यस्य परिणामाः अत्यन्तम् उत्साहजनकाः अभवन्। वर्तमानकाले धमतरी, नारायणपुर, कोण्डागांव, बस्तर तथा रायपुर जनपदेषु स्थितेषु २३ ग्रामेषु १४७ कृषकाः ६५ एकड़ भूमौ औषधीयकृषिं स्वीकृतवन्तः।
योजनायाः अन्तर्गताः ६३ कृषकाः ३९ एकड़ भूमौ ‘वच’ इत्यस्य कृषिं कृतवन्तः, यदा ८४ कृषकाः २६ एकड़ क्षेत्रे ‘ब्राह्मी’ इत्यस्य उत्पादनं कृतवन्तः। धमतरीजिले सर्वाधिकः परिवर्तनः दृष्टः, यत्र १६ ग्रामाणां ९० कृषकाः २७.५ एकड़ भूमौ औषधीयकृषिं कृत्वा उत्तमाम् आयं प्राप्तवन्तः। रायपुरजिलस्य ३५ कृषकाः ११.५ एकड़मिते क्षेत्रे औषधीयसस्यानि उत्पाद्य उल्लेखनीयं लाभं प्राप्तवन्तः।
वनमन्त्री केदार कश्यपः उक्तवान् यत् आदिवासीक्षेत्राणां कृषकाः अपि अधुना पारम्परिककृषेः अग्रे गत्वा बाजाराधारिताम् औषधीयकृषिं प्रति शीघ्रतया अग्रसरन्ति। तेन उक्तं यत् अयं मॉडलः न्यूनव्यये अधिकलाभप्रदानस्य सफलम् उदाहरणं जातम् अस्ति।
परिषद्द्वारा कृषकेभ्यः निःशुल्काः औषधीयपादपाः प्रदीयन्ते। तदतिरिक्तं तकनीकीप्रशिक्षणं सफलकृषकाणां क्षेत्राणां अध्ययनभ्रमणं तथा उत्पादक्रयार्थं अनुबन्धितसंस्थाभिः माध्यमेन बाजारव्यवस्था अपि सुनिश्चितीक्रियते। अनेन कृषकाः उत्पादनविपणनयोः उभयस्तरयोः सहाय्यं प्राप्नुवन्ति।
परिषदः अनुसारम् एकस्मिन् एकड़ क्षेत्रे ‘वच’ तथा ‘ब्राह्मी’ इत्ययोः कृषौ कृषकाणां व्ययः प्रायः २० सहस्ररूप्यकाणि अभवत्, यदा एकस्मिन् वर्षे प्रति एकड़ प्रायः एकलक्षरूप्यकपर्यन्ता शुद्धाया प्राप्ता। न्यूनव्ययेन उत्तमलाभस्य कारणेन कृषकाणां रुचिः शीघ्रतया औषधीयकृषिं प्रति वर्धते।
वनमन्त्री केदार कश्यपः उक्तवान् यत् राज्यसर्वकारः कृषकेभ्यः केवलं सहाय्यं न, अपितु स्थाय्यायाः आयायाः सुदृढमॉडलप्रदानस्य दिशि कार्यं करोति। तेन उक्तं यत् सम्यक् मार्गदर्शनं तकनीकीसहयोगः सुनिश्चितबाजारव्यवस्था च उपलब्धा चेत् कृषिः अत्यन्तं लाभकारिणी कर्तुं शक्यते। अद्य “पैडी डायवर्सन मॉडल” सम्बद्धाः कृषकाः आत्मनिर्भरतायाः आर्थिकसमृद्धेः च नूतनाम् आदर्शरूपां प्रतिमां निर्मान्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani