ईद-उल-अजहा-अवसरे राज्यपालः आर.एन.रवि-महोदयः शुभकामनाः प्रदत्तवान्
कोलकातानगरम्, २८ मे-मासः (हि.स.)।पश्चिमबङ्गराज्यस्य राज्यपालः आर.एन.रवि-महोदयः गुरुवासरे ईद्-उल-अजहा-अवसरे देशवासिभ्यः शुभकामनाः प्रदत्तवान्। तेन सामाजिकमाध्यम-मञ्चे “एक्स” इत्यत्र संदेशं प्रकाश्य उक्तं यत् एषः उत्सवः परस्परसौहार्दं भ्रातृत्वम् एकत
राज्यपाल आर एन रवि


कोलकातानगरम्, २८ मे-मासः (हि.स.)।पश्चिमबङ्गराज्यस्य राज्यपालः आर.एन.रवि-महोदयः गुरुवासरे ईद्-उल-अजहा-अवसरे देशवासिभ्यः शुभकामनाः प्रदत्तवान्। तेन सामाजिकमाध्यम-मञ्चे “एक्स” इत्यत्र संदेशं प्रकाश्य उक्तं यत् एषः उत्सवः परस्परसौहार्दं भ्रातृत्वम् एकताभावं च अधिकं सुदृढं करोतु।

राज्यपालेन स्वसन्देशे सर्वेषां जनानां जीवने शान्तेः, समृद्धेः, सुखसमृद्धेः च कामना कृता। तेन उक्तं यत् ईद-उल-अजहा इत्येतत् पवित्रं पर्व समाजे प्रेम्णः सद्भावस्य च सन्देशं प्रसारयतु।

स्वस्य संदेशे तेन “ईद मुबारक” तथा “बकरीद” इति हैशटैग-चिह्नयोः अपि उपयोगः कृतः।

Hindusthan Samachar / Divya Ranjan