Enter your Email Address to subscribe to our newsletters

हुगली-नगरम्, २८ मे-मासः (हि.स.)। दीर्घकालात् प्रचलितायाः मागस्य, आन्दोलनस्य, प्रतीक्षायाश्च अनन्तरम् अन्ततः अराण्डी-जयसिंहचक-सेतोः निर्माण-कार्यस्य प्रारम्भः अभवत्। गुरुवासरे भूमि-पूजनेन सह अस्या: बहुप्रतीक्षित-सेतु-परियोजनायाः औपचारिक-शुभारम्भः कृतः। सेतु-निर्माण-कार्यस्य प्रारम्भेण अराण्डी-तथा समीपवर्ती-क्षेत्राणां जनानां मध्ये हर्षस्य वातावरणम् अस्ति।
कार्यक्रमे आरामबाग-विधानसभा-क्षेत्रस्य विधायकः हेमन्त-बागेन सह क्षेत्रस्य अनेके गणमान्य-जनाः स्थानीय-निवासिनश्च उपस्थिताः आसन्। भूमि-पूजन-अवसरे जनैः दीर्घकालात् लंबितायाः अस्याः परियोजनायाः प्रारम्भे उत्साहः प्रकटितः।
विधायकः हेमन्त-बागः उक्तवान् यत् अयं सेतुः केवलं निर्माण-परियोजना नास्ति, अपितु क्षेत्रीय-जनानां दीर्घकालात् दृष्टस्य स्वप्नस्य साकारतायाः आरम्भः अस्ति। तेन उक्तं यत् क्षेत्रस्य जनाः दीर्घकालात् यातायात-समस्याभिः पीडिताः आसन्। विशेषतः वर्षा-कालस्य समये जनानां कष्टानि अत्यधिकानि वर्धन्ते स्म।
तेन आशा व्यक्ता यत् सेतु-निर्माण-कार्यस्य पूर्णतायाः अनन्तरं क्षेत्रस्य सम्पर्क-व्यवस्थायां महत् सुधारः भविष्यति तथा क्षेत्रस्य समग्र-विकासस्य मार्गः अधिकं सुदृढः भविष्यति।
हेमन्त-बागः उक्तवान् यत् जनैः सह स्थित्वा विकास-संबद्ध-प्रतिज्ञानां पूर्त्यर्थं सः प्रतिबद्धः अस्ति। स्थानीय-निवासिनां याचनानां आवश्यकतानां च ध्यानं निधाय एव एषा परियोजना आरब्धा अस्ति।
स्थानीय-निवासिनः उक्तवन्तः यत् अनेकेभ्यः वर्षेभ्यः अस्य सेतोः याचनां प्रति आन्दोलनं प्रचलति स्म। अधुना निर्माण-कार्यस्य प्रारम्भेण छात्र-छात्राणां, कार्यालय-कार्यरत-जनानां, व्यापारिणां च आगमन-निर्गमने महती सुविधा भविष्यति।
कार्यक्रमे उपस्थितैः जनैः आशा व्यक्ता यत् सेतोः निर्माण-कार्यं निर्धारित-समये एव पूर्णं भविष्यति, येन क्षेत्रीय-जनानां कृते शीघ्रं सौविध्यम् उपलब्धं भविष्यति।
हिन्दुस्थान समाचार / Divya Ranjan