राष्ट्रपतिना सिक्किम-आरक्षकबलाय “राष्ट्रपतेः पुलिस-कलर” इति सम्मानं प्रदत्तम्
गङ्गटोकनगरम्, २८ मे-मासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु-महोदया सिक्किम-आरक्षकबलाय “राष्ट्रपतेः पुलिस-कलर” इति सम्मानं प्रदत्तवती। राष्ट्रपतिः गुरुवासरे राजधानीस्थे पाल्जोर-स्टेडियम-प्राङ्गणे आयोजिते भव्यसमारोहे सिक्किम-आरक्षकबलाय एतदलंकरणं समर्
राष्ट्रपतिना सिक्किम-आरक्षकबलाय “राष्ट्रपतेः पुलिस-कलर” इति सम्मानं प्रदत्तम्


गङ्गटोकनगरम्, २८ मे-मासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु-महोदया सिक्किम-आरक्षकबलाय “राष्ट्रपतेः पुलिस-कलर” इति सम्मानं प्रदत्तवती। राष्ट्रपतिः गुरुवासरे राजधानीस्थे पाल्जोर-स्टेडियम-प्राङ्गणे आयोजिते भव्यसमारोहे सिक्किम-आरक्षकबलाय एतदलंकरणं समर्पितवती।

अयं पुरस्कारः सिक्किम-आरक्षकबलाय विधिव्यवस्था-पालनम्, अपराध-नियन्त्रणम्, यातायात-प्रबन्धनम्, आधुनिकीकरणम् तथा सिक्किम-आरक्षकविभागस्य नवीनीकरणक्षेत्रेषु उल्लेखनीयकार्याणां कृते प्रदत्तः अस्ति। सिक्किमराज्यम् एतत् सम्मानं प्राप्तुं देशस्य पञ्चदशतमं राज्यं जातम्।

अस्मिन् अवसरे राज्यपालः ओमप्रकाशमाथुरः, मुख्यमन्त्री प्रेमसिंह-तमाङ्गः, मन्त्रिगणः, विधायकगणः, सिक्किमसर्वकारस्य वरिष्ठाधिकारिणः तथा बहुसंख्यकाः जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan