राष्ट्रपतिः मुर्मु-महोदया अद्य सिक्किम-आरक्षकबलाय “राष्ट्रपति-पुलिस-कलर-अवार्ड् ‘निशान’” इति सम्मानं प्रदास्यति
गङ्गटोकनगरम्, २८ मे-मासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु-महोदया गुरुवासरे सिक्किम-आरक्षकबलाय “राष्ट्रपति-पुलिस-कलर-अवार्ड् ‘निशान’” इति सम्मानं प्रदास्यति। राजधानीस्थे पाल्जोर-स्टेडियम-प्राङ्गणे आयोज्यमाने भव्य-अलंकरण-समारोहे सिक्किम-आरक्षकबलं स
president draupadi murmu


गङ्गटोकनगरम्, २८ मे-मासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु-महोदया गुरुवासरे सिक्किम-आरक्षकबलाय “राष्ट्रपति-पुलिस-कलर-अवार्ड् ‘निशान’” इति सम्मानं प्रदास्यति। राजधानीस्थे पाल्जोर-स्टेडियम-प्राङ्गणे आयोज्यमाने भव्य-अलंकरण-समारोहे सिक्किम-आरक्षकबलं सम्मानितं भविष्यति।

राष्ट्रपतेः द्रौपदीमुर्मु-महोदयायाः सिक्किमराज्यस्य त्रिदिवसीया आधिकारिकयात्रा अद्य समाप्तिं गच्छति। यात्रायाः अन्तिमदिने राष्ट्रपतिः सिक्किम-आरक्षकबलाय भारतस्य राष्ट्रपतेः “पुलिस-कलर-अवार्ड ‘निशान’” इति पुरस्कारं प्रदास्यति। एषः पुरस्कारः सिक्किम-आरक्षकबलाय राज्यवासिनः प्रति तेषां प्रशंसनीयसेवार्थं दीयते। सिक्किमराज्यम् एतत् सम्मानं प्राप्तुं देशस्य पञ्चदशतमं राज्यं जातम्।

उल्लेखनीयं यत् राष्ट्रपतिः त्रिदिवसीय-यात्रायै २६ मे-मासे गङ्गटोक-नगरं प्राप्तवती। प्रथमदिने तया राजधानीस्थे मैत्रेय-मञ्जरी-परिसरे स्थितस्य ऑर्किडेरियम-इत्यस्य भ्रमणं कृतम्, यत् राज्यस्य स्वर्णजयन्त्याः प्रतीकं वर्तते। तस्मिन्नेव दिने तया राजधानीसमीपे देवराली-क्षेत्रे स्थितस्य नामग्याल-इन्स्टिट्यूट-ऑफ-तिब्बतोलॉजी इत्यस्य अपि भ्रमणं कृतम्।

यात्रायाः द्वितीयदिने राष्ट्रपतिः “पिङ्क-सिटी-रनर-बस-सेवा” इत्यस्य उद्घाटनं कृतवती। एषा बस-सेवा सिक्किम-सर्वकारेण महिलानां सुविधां दृष्ट्वा आरब्धा अस्ति। राष्ट्रपतिः मुर्मु-महोदया ह्यः सिक्किम-केन्द्रीय-विश्वविद्यालयस्य सप्तम-दीक्षान्त-समारोहेऽपि सहभागं कृतवती। भारत-चीन-सीमाक्षेत्रे नाथुला-प्रदेशस्य तस्याः प्रातःकालीनयात्रा दुर्वातावरणस्य कारणेन निरस्ता अभवत्।

Hindusthan Samachar / Divya Ranjan