ओडिशायां भाजपा सर्वकारस्य द्वितीय वर्षग्रंथि समारोहे सम्मेलिष्यति प्रधानमंत्री मोदी
भुवनेश्वरम्, 29 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी ओडिशाराज्ये भाजपाशासनस्य द्वितीयवर्षगंथि-समारोहे सहभागी भविष्यति। एतस्य विषये सूचना मुख्यमन्त्री मोहनचरणमाझी गुरुवासरस्य सायंकाले एकस्मिन् कार्यक्रमे दत्तवान्। भुवनेश्वरनगरे आयोजिते कार्यक
प्रधानमंत्री नरेन्द्र मोदी


भुवनेश्वरम्, 29 मईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी ओडिशाराज्ये भाजपाशासनस्य द्वितीयवर्षगंथि-समारोहे सहभागी भविष्यति। एतस्य विषये सूचना मुख्यमन्त्री मोहनचरणमाझी गुरुवासरस्य सायंकाले एकस्मिन् कार्यक्रमे दत्तवान्। भुवनेश्वरनगरे आयोजिते कार्यक्रमे मुख्यमन्त्री उक्तवान् यत् तेन प्रधानमन्त्री मोदी समारोहे सहभागी भवितुं व्यक्तिगततया आमन्त्रितवान् आसीत्, यस्मिन् विषये बुधवासरे सकारात्मकस्वीकृतिः प्राप्ता। मुख्यमन्त्री उक्तवान् —

“मया प्रधानमन्त्री ओडिशाराज्ये भाजपाशासनस्य द्वितीयस्थापनादिवससमारोहे सहभागी भवितुं सादरम् आमन्त्रितः आसीत्। ह्यः अस्माभिः अस्य विषये सकारात्मकः उत्तरः प्राप्तः।”

किन्तु प्रधानमन्त्री कस्यां तिथौ ओडिशाराज्यं आगमिष्यति, एतत् अद्यापि सुनिश्चितं न जातम्।

मध्यपूर्वप्रदेशे प्रचलितस्य युद्धस्य कारणेन उत्पन्नं वैश्विक-ऊर्जासंकटं दृष्ट्वा राज्यशासनेन समारोहस्य सरलपूर्णरीत्या आयोजनस्य निर्णयः कृतः। मुख्यमन्त्रीकार्यालयस्य अनुसारं राज्यशासनं १२ जूनतः २१ जूनपर्यन्तं विविधकार्यक्रमाणाम् आयोजनं करिष्यति। तेन सह शासनं गतद्विवर्षयोः उपलब्धीनां प्रमुखजनहितकारीपहलानां च विषये जनान् अवगतं कर्तुं विशेष-माध्यम-अभियानमपि सञ्चालयिष्यति।

समारोहस्य समये ओडिशाराज्यस्य विकासयात्रा, विविधक्षेत्रेषु सम्भावनाः तथा ‘विकसित-ओडिशा २०३६’ दृष्टिपत्रस्य अनुरूपाः भविष्ययोजनाः प्रदर्शयितुं विषयाधारितकार्यक्रमाः आयोजिताः भविष्यन्ति। दशदिवसीयकार्यक्रमस्य अन्तर्गतं राज्यस्य मन्त्रिणः स्वस्वविभागानां उपलब्धीनां विषये पत्रकारसम्मेलनानि करिष्यन्ति।

तथैव विविधविभागैः शासकीययोजनानां उपलब्धीनां च विषये जनानां जागरूकतावृद्ध्यर्थं पुस्तिकाः प्रचारसामग्री च वितरिता भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani