अखिलभारतीयविद्यार्थिपरिषदो राष्ट्रिय कार्यकारी परिषदःउपवेशनं भुवनेश्वरे शुभारब्धं, त्रि-भाषानीतौ चर्चा
भारतीय भाषाणां सुदृढ़ीकरणस्य भाषायीविविधतायाः संरक्षणे त्रि-भाषा नीतेर्महत्त्वपूर्णं पदम् : डॉ. वीरेंद्र सिंह सोलंकी भुवनेश्वरम्, 29 मईमासः ( हि स)। अखिलभारतीयविद्यार्थीपरिषदः राष्ट्रियकार्यकारिपरिषदः उपवेशम् अद्य भुवनेश्वरनगरे आरब्धा। राष्ट्रिया
अभाविप की तीन-दिवसीय राष्ट्रीय कार्यकारी परिषद बैठक का शुभारंभ


भारतीय भाषाणां सुदृढ़ीकरणस्य भाषायीविविधतायाः संरक्षणे त्रि-भाषा नीतेर्महत्त्वपूर्णं पदम् : डॉ. वीरेंद्र सिंह सोलंकी

भुवनेश्वरम्, 29 मईमासः ( हि स)। अखिलभारतीयविद्यार्थीपरिषदः राष्ट्रियकार्यकारिपरिषदः उपवेशम् अद्य भुवनेश्वरनगरे आरब्धा। राष्ट्रियाध्यक्षः प्रो० रघुराजकिशोरतिवारी, राष्ट्रियमहामन्त्री डॉ० वीरेन्द्रसिंहसोलंकी तथा राष्ट्रियसङ्गठनमन्त्री आशीषचौहानः दीपप्रज्वलनं कृत्वा बैठकायाः शुभारम्भं कृतवन्तः।

राष्ट्रियकार्यकारिपरिषदः बैठकायाः उद्घाटनसत्रं सम्बोधयन् अभाविपस्य राष्ट्रियमहामन्त्री डॉ० वीरेन्द्रसिंहसोलंकी उक्तवान् यत् भुवनेश्वरनगरे आयोजितायां राष्ट्रियकार्यकारिपरिषदः उपवेशने शिक्षा, वैश्विकपरिदृश्यं, सेवा, क्रीडा, पर्यावरणं, तकनीकी तथा अन्येषु महत्त्वपूर्णविषयेषु चर्चा भविष्यति।

गतदिने केन्द्रीयमाध्यमिकशिक्षामण्डलेन त्रिभाषानीतेः पूर्णतया कार्यान्वयनस्य निर्णयः भारतीयशिक्षायाः स्वदेशीकरणस्य राष्ट्रियैक्यस्य च सुदृढीकरणस्य दिशि सकारात्मकं पदम् अस्ति। देशे रोजगारस्य उच्चशिक्षायाश्च कृते निरन्तरं वर्धमानं अन्तर्राज्यीयप्रवासं दृष्ट्वा भारतीयभाषाणां ज्ञानं छात्राणां भविष्याय अत्यन्तं उपयोगि सिद्धं भविष्यति। संक्रमणकाले पाठ्यपुस्तकानाम् उपलब्धता, शिक्षकेषु न्यूनता इत्यादीनां व्यावहारिकचुनौतीनां समाधानार्थं मण्डलेन प्रदत्ताः लचीलसमाधानाः प्रशंसनीयाः सन्ति।

अभाविपस्य मतम् अस्ति यत् भाषाणाम् अध्ययनस्य सह बोर्डपरीक्षाः अपि त्रिभाषाव्यवस्थानुसारं आयोजितव्याः, येन एषा नीति अधिकप्रभावीरीत्या कार्यान्विता भवेत्। अस्यां गोष्ठ्यां राष्ट्रियशिक्षानीतेः प्रभावीकार्यन्वयनस्य, भारतीयभाषाणां संवर्धनस्य तथा त्रिभाषानीतेः विभिन्नायामानां विषये विस्तृता चर्चा भविष्यति।

निश्चितरूपेण कार्यान्वयनानन्तरम् एषा नीति भारतीयभाषाणां सुदृढीकरणे भाषिकविविधतायाः संरक्षणे च मीलपाषाणरूपेण सिद्धा भविष्यति। अभाविप एतं विषयं शिक्षाक्षेत्रे गुणात्मकपरिवर्तनस्य राष्ट्रियैकात्मतायाश्च महत्त्वपूर्णमाध्यमरूपेण पश्यति। बैठके अस्य सम्बन्धे आवश्यकसुझावानां आगामीकार्ययोजनायाश्च विषये अपि विचारः भविष्यति।---

Hindusthan Samachar / Dheeraj Maithani