रायपुरस्य कृषिविश्वविद्यालये त्रिदिवसीयराष्ट्रीय-आम्र-महोत्सवः अद्य आरभ्यते
रायपुरनगरम्, २९ मे-मासः (हि.स.)। राजधानी-रायपुरस्य इन्दिरागान्धी-कृषिविश्वविद्यालय-परिसरे अद्य शुक्रवासरात् आरभ्य अग्रिमत्रिदिनपर्यन्तं आम्रफलानां सम्मर्दः भविष्यति तथा समग्रं वातावरणम् आम्रमयं भविष्यति। अस्मिन् अवसरे कृषिविशेषज्ञाः कृषकेभ्यः उन्नत
कृषि विश्वविद्यालय  राष्ट्रीय आम महोत्सव  फाइल फाेटाे


रायपुरनगरम्, २९ मे-मासः (हि.स.)। राजधानी-रायपुरस्य इन्दिरागान्धी-कृषिविश्वविद्यालय-परिसरे अद्य शुक्रवासरात् आरभ्य अग्रिमत्रिदिनपर्यन्तं आम्रफलानां सम्मर्दः भविष्यति तथा समग्रं वातावरणम् आम्रमयं भविष्यति। अस्मिन् अवसरे कृषिविशेषज्ञाः कृषकेभ्यः उन्नतकृषेः, पादपरक्षणस्य तथा उत्तमोत्पादन-प्रविधीनां विषये सूचनां दास्यन्ति।

इन्दिरागान्धी-कृषिविश्वविद्यालयः रायपुरनगरम्, संचालनालयः उद्यानिकी-प्रक्षेत्रवानिकी च, छत्तीसगढ-शासनं तथा ‘प्रकृति की ओर’-संस्था इत्येतयोः संयुक्ततत्त्वावधाने अद्यतः ३१ मे-मास- पर्यन्तं त्रिदिवसीयः राष्ट्रीय-आम्र-महोत्सवः आयोज्यते। कृषिमहाविद्यालय-परिसरे आयोजितस्य राष्ट्रीय-आम्र-महोत्सव-२०२६ इत्यस्य शुभारम्भं राज्यपालः रमेन-डेका अद्य अपराह्णे ४ वादने करिष्यति। उद्घाटनसमारोहस्य अध्यक्षतां मुख्यमन्त्री विष्णुदेव-सायः करिष्यति। कृषिमन्त्री रामविचार-नेतामः तथा रायपुर-सांसदः बृजमोहन-अग्रवालः अति-विशिष्टातिथिरूपेण उपस्थितौ भविष्यतः। रायपुर-ग्रामीण-विधायकः मोतीलाल-साहू, धरसींवा-विधायकः अनुज-शर्मा, छत्तीसगढ-राज्य-बीज-कृषिविकास-निगमस्य अध्यक्षः चन्द्रहास-चन्द्राकरः, छत्तीसगढ-राज्य-कृषक-कल्याण-परिषदः अध्यक्षः सुरेश-चन्द्रवंशी तथा इन्दिरागान्धी-कृषिविश्वविद्यालयस्य कुलपतिः डॉ.गिरीश-चन्देलः विशिष्टातिथिरूपेण उपस्थिताः भविष्यन्ति।

राष्ट्रीय-आम्र-महोत्सवे आम्रफलस्य २५० अधिकाः जातयः प्रदर्शिताः भविष्यन्ति। अत्र आम्रस्य उन्नतजातीयाः पादपाः तथा फलानि विक्रयार्थं सामान्यजनानां कृते उपलब्धानि भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan