Enter your Email Address to subscribe to our newsletters


लखनऊनगरम्, २९ मे-मासः (हि.स.)। राष्ट्रियलोकदलस्य प्रदेशमुख्यालये शुक्रवासरे देशस्य पूर्वप्रधानमन्त्री, कृषकाणां नायकः, भारतरत्न-पुरस्कारप्राप्तः चौधरीचरणसिंहस्य पुण्यतिथिः श्रद्धया आचरिता। अस्मिन् अवसरे राष्ट्रियलोकदलस्य प्रदेशाध्यक्षः डॉ.रामाशीषरायः दलमुख्यालयस्थितैः पदाधिकारिभिः कार्यकर्तृभिः च सह यज्ञ-पूजनं कृतवान् तथा विधानभवनस्थितायां चौधरीचरणसिंहस्य प्रतिमायां माल्यार्पणं कृत्वा श्रद्धाञ्जलिं समर्पितवान्।
अस्मिन् अवसरे प्रदेशाध्यक्षः डॉ.रामाशीषरायः चौधरीमहोदयं प्रणम्य उक्तवान् यत् चौधरीचरणसिंहस्य सम्पूर्णं जीवनं कृषकाणां, श्रमिकाणां ग्रामाणां च उत्थानाय समर्पितम् आसीत्। तस्य सिद्धान्ताः विचाराश्च अद्यापि राष्ट्रियलोकदलस्य प्रेरणास्त्रोतांसि सन्ति।तेन उक्तं यत् राष्ट्रियलोकदलं सर्वदा कृषकहितानां संरक्षणार्थं संघर्षं करोति तथा अद्य एनडीए-सर्वकारेऽपि कृषकसम्बद्धविषयान् दृढतया उत्थाप्य कृषकहिताय निर्णयप्रक्रियायां योगदानं ददाति। इक्षुकृषकाणां प्रदानम्, सस्यानां उचितमूल्यम्, सिंचनम्, विद्युत्सुविधा, ग्रामीणविकासः इत्यादिषु विषयेषु राष्ट्रियलोकदलं निरन्तरं संघर्षरतम् अस्ति।
डॉ.रामाशीषरायः उक्तवान् यत् चौधरीचरणसिंहेन प्रदर्शितेन मार्गेण गच्छन् राष्ट्रियलोकदलं ग्रामाणां, कृषकाणां, श्रमिकाणां, यूनां च अधिकाराणां स्वरं सर्वदा उन्नतं करिष्यति।
व्यापार-प्रकोष्ठस्य प्रदेशाध्यक्षः रोहित-अग्रवालः उक्तवान् यत् पूर्वप्रधानमन्त्री भारतरत्न-चौधरी चरणसिंहं केवलं कृषकनेतारूपेण सीमितदृष्ट्या अवलोकयितुं तस्य व्यापक-आर्थिकचिन्तनं प्रति अन्यायः भवति। वस्तुतः चौधरीचरणसिंहः ग्राम-कृषक-लघुव्यापार-कृष्याधारित-अर्थव्यवस्थाः च एकत्र सुदृढीकर्तुं समर्थकः आसीत्।
तेन उक्तं यत् बहुवर्षेभ्यः समाजे एषः भ्रमः प्रसारितः यत् चौधरीचरणसिंहः व्यापारी-वर्गस्य विरोधी आसीत्, किन्तु तस्य विरोधः केवलं महदेकाधिकारयुक्त-औद्योगिक-संरचनां प्रति आसीत्। चौधरीमहोदयस्य स्पष्टं मतम् आसीत् यत् देशस्य आर्थिकसुदृढतायाः आधारः कृष्याधारित-उद्योगाः, स्थानीयव्यापारः, सुदृढा मण्डी-व्यवस्था च भवेत्। सः सर्वदा कृषकं व्यापारीवर्गं च परस्पर-सहयोगिरूपेण मन्यते स्म।
रोहित-अग्रवालः उक्तवान् यत् चौधरीचरणसिंहस्य नीतिनां कारणेन एव देशे कृषिमण्डीनां सुदृढीकरणम् अभवत् तथा ग्रामीण-विपणानां विस्तारः अभवत्। तस्य स्वप्नम् आसीत् यत् कृषकः स्वोपजस्य उचितमूल्यं प्राप्नुयात् तथा व्यापारीवर्गः सम्मानजनकं सुरक्षितं च व्यापारिकवातावरणं लभेत। तेन तादृशी आर्थिकव्यवस्था परिकल्पिता या ग्रामान् आत्मनिर्भरान् कुर्यात् तथा कृष्याधारित-उद्योगानां संवर्धनं कुर्यात्।
तेन उक्तं यत् कालक्रमेण चौधरीचरणसिंहस्य मूलचिन्तनं राजनैतिकसीमासु बद्धम्, येन कृषक-व्यापारीवर्गयोः मध्ये अनावश्यकदूरी उत्पन्ना। यद्यपि वस्तुतः कृषकस्य समृद्ध्या व्यापारः सुदृढो भवति तथा व्यापारस्य सुदृढतया ग्रामीण-अर्थव्यवस्था गतिं प्राप्नोति।
कार्यक्रमे प्रदेशोपाध्यक्षः वसीमहैदरः, आदित्यविक्रमसिंहः, रजनीकान्तमिश्रः, प्रदेशमहासचिवः मनोजसिंहचौहानः, प्रीतिश्रीवास्तवः, चन्द्रकान्त-अवस्थी, राघवेन्द्रप्रतापयादवः, युवा-रालोदस्य प्रदेशाध्यक्षः रविन्द्रसिंहपटेलः, प्रोफेशनल-मञ्चस्य प्रदेशाध्यक्षः अम्बुजपटेलः, महिला-प्रकोष्ठस्य प्रदेशाध्यक्षः परिणीतासिंहः इत्यादयः दलस्य अनेके पदाधिकारिणः कार्यकर्तारः च उपस्थिताः आसन्। एतस्य विषये सूचनां दत्त्वा प्रदेशमाध्यमप्रभारी मयंकत्रिवेदी उक्तवान् यत् राजधानी लखनऊसहितं सर्वेषु जनपदेषु दलकार्यकर्तृभिः चौधरीमहोदयं श्रद्धया प्रणामः कृतः।
Hindusthan Samachar / Divya Ranjan