जनगणनायां 2027 संस्कृतम् अंगीकर्तुम् आह्वानम्
जम्मूः, 29 मईमासः (हि.स.)। श्रीकैलखज्योतिषवैदिकसंस्थानट्रस्टस्य अध्यक्षः महन्तः रोहितशास्त्री देशवासिनः प्रति वर्ष २०२७ जनगणनायां भाषारूपेण संस्कृतस्य उल्लेखं कर्तुं आह्वानं कृतवान्। तेन उक्तं यत् जनगणना केवलं जनसंख्यागणनायाः माध्यमं नास्ति, अपितु
rohit


जम्मूः, 29 मईमासः (हि.स.)। श्रीकैलखज्योतिषवैदिकसंस्थानट्रस्टस्य अध्यक्षः महन्तः रोहितशास्त्री देशवासिनः प्रति वर्ष २०२७ जनगणनायां भाषारूपेण संस्कृतस्य उल्लेखं कर्तुं आह्वानं कृतवान्। तेन उक्तं यत् जनगणना केवलं जनसंख्यागणनायाः माध्यमं नास्ति, अपितु देशस्य सांस्कृतिकभाषिकसामाजिकपरिचयस्य महत्त्वपूर्णाधारोऽपि अस्ति। महन्तः रोहितशास्त्री उक्तवान् यत् भारतस्य प्राचीनज्ञानपरम्परा वैदिकसंस्कृतिः देववाणी संस्कृतभाषा च देशस्य अमूल्यधरोहराः सन्ति, यासां संरक्षणं संवर्धनं च प्रत्येकस्य भारतीयस्य दायित्वम् अस्ति। तेन उक्तं यत् संस्कृतभाषा केवलं कस्यचित् एकस्य वर्गस्य परम्परायाः वा भाषा नास्ति, अपितु सम्पूर्णभारतीयसंस्कृतेः आत्मा अस्ति।

तेन उक्तं यत् वेदाः उपनिषदः रामायणम् महाभारतम् गीता आयुर्वेदः योगः ज्योतिषम् भारतीयदर्शनपरम्पराः वैज्ञानिकपरम्पराश्च संस्कृतभाषायाः एव मूलस्रोतसः सन्ति। यदि देशः स्वस्य सांस्कृतिकमूलैः सह दृढतया सम्बद्धः स्थापनीयः अस्ति तर्हि संस्कृतभाषायाः प्रति सामाजिकजागरूकता व्यवहारिकस्वीकार्यता च वर्धनीया अत्यावश्यकम्। महन्तः रोहितशास्त्री नागरिकान् प्रति अपीलं कुर्वन् उक्तवान् यत् यदा वर्ष २०२७ जनगणनायाः समये अधिकारिणः गृहे गृहे सूचनासंग्रहणार्थम् आगमिष्यन्ति तदा भाषासम्बद्धविवरणे निःसंकोचं संस्कृतस्य उल्लेखः करणीयः। तेन उक्तं यत् “मम भाषा संस्कृतम्” तथा “अस्माकं भाषा संस्कृतम्” इति उक्त्वा प्रत्येकः नागरिकः संस्कृतसंरक्षणस्य राष्ट्रीयाभियाने स्वसहभागितां सुनिश्चितां कर्तुं शक्नोति।

तेन उक्तं यत् जनगणनायां संस्कृतस्य व्यापकउल्लेखः केवलं भाषासंख्यावृद्धेः विषयः नास्ति, अपितु भारतस्य सांस्कृतिकअस्मितायाः आध्यात्मिकपरम्परायाः ज्ञानविज्ञानस्य गौरवशालिविरासतायाश्च सुदृढीकरणस्य माध्यमं भविष्यति। अनेन आगामिपीढीनां मध्ये संस्कृतभाषायाः प्रति सम्मानः अध्ययनम् व्यवहारिकप्रयोगभावना च विकसिताः भविष्यन्ति।

महन्तः रोहितशास्त्री उक्तवान् यत् वर्तमानकाले विश्वस्य सर्वत्र भारतीयसंस्कृतेः योगस्य आयुर्वेदस्य सनातनज्ञानस्य च प्रति आकर्षणं निरन्तरं वर्धते। एतादृशे समये संस्कृतभाषायाः पुनर्जागरणं भारतस्य सांस्कृतिकनेतृत्वं अधिकं सुदृढं करिष्यति। तेन उक्तं यत् संस्कृतभाषा केवलम् अतीतस्य भाषा नास्ति, अपितु भारतस्य भविष्यस्य सांस्कृतिकचेतनायाः राष्ट्रीयएकात्मतायाश्च आधारोऽपि अस्ति। तेन सूचना प्रदत्ता यत् श्रीकैलखज्योतिषवैदिकसंस्थानट्रस्ट आगामिकाले जनगणना २०२७ विषयकसंस्कृतजागरणार्थं विविधसामाजिकधार्मिकशैक्षणिककार्यक्रमान् आयोजयिष्यति, येन अधिकाधिकाः जनाः संस्कृतभाषायाः महत्त्वं अवगच्छेयुः तथा जनगणनायां तस्याः उल्लेखं कर्तुं प्रेरिताः भवेयुः।

अन्ते महन्तः रोहितशास्त्री संस्कृतप्रेमिणः शिक्षकान् विद्यार्थिनः धार्मिकसंस्थाः सामाजिकसंघटनानि च अस्मिन् जनजागरणाभियाने सक्रियभूमिकां निर्वहितुं आग्रहं कृत्वा उक्तवान् यद् आगच्छामः, जनगणना २०२७ संस्कृतजागरणस्य जनआन्दोलनरूपेण परिवर्तयामः तथा स्वस्याः देववाण्याः संस्कृतभाषायाः राष्ट्रियचेतनाकेंद्रे प्रतिष्ठापनं कुर्मः।

Hindusthan Samachar / Dheeraj Maithani